Adhyaya 218
Nagara KhandaTirtha MahatmyaAdhyaya 218

Adhyaya 218

第218章以婆尔特利耶阇那(Bhartṛyajña)训诫国王的形式,呈现一部关于施行“施罗达”(śrāddha,祭祖追荐仪式)的技术与伦理手册。章首重申一般规范,并承诺将依各自传承支派及其在本地之适宜性,按“本土—种姓—族类”(svadeśa–varṇa–jāti)的框架作更细致的说明。文中界定“施拉达”(śraddhā,至诚信心)为施罗达之根本,强调唯有真诚奉行,仪式才不致徒劳。 继而说明:即便是仪式中偶然产生的“余物”——婆罗门足下之水、落下之食、香气、漱洗之余水,以及散落的达尔婆草(darbha)——在观念上也被分配为供养不同类别亡灵之食,乃至处于衰微境况的“饿鬼/游魂”(preta)以及转生为非人之类者。全章尤重“达克希那”(dakṣiṇā,酬谢与布施):无达克希那之供献,被譬喻为不结果的雨或在黑暗中行事,表明赠施与酬谢是使仪式圆满不可或缺的一环。 又列举在施与或食用施罗达之后的禁戒:当止息诵习(svādhyāya),不宜前往他村,并须守持房事节制;违犯则被说会令果报失效,或使本欲回向祖先之利益发生偏差。并警诫不当受邀与施主纵情宴食之过。末偈总摄:无论主祭者(yajamāna)或参与者,皆当谨慎远离诸过失,以护持仪式之功德与效验。

Shlokas

Verse 1

भर्तृयज्ञ उवाच । एतत्सामान्यतः प्रोक्तं मया श्राद्धं यथा नरैः । कर्त्तव्यं विप्रपूर्वैर्यद्वर्णैः पार्थिवसत्तम

婆尔特利耶祭(Bhartṛyajña)说道:“大王之最胜者啊,我已概略说明:诸种姓之人当如何行施祖礼(śrāddha),并以婆罗门为先。”

Verse 2

अतः परं प्रवक्ष्यामि स्वशाखायाः स्मृतं नृप । स्वदेशवर्णजातीयं यथा स्यादत्र निर्वृतिः

如今,大王啊,我将宣说各自吠陀支派(śākhā)所传记之法,并兼述随其地域、种姓(varṇa)与族群相应的行持,使此处得以圆满、如法而正。

Verse 3

श्राद्धे श्रद्धा यतो मूलं तेन श्राद्धं प्रकीर्तितम् । तत्तस्मिन्क्रियमाणे तु न किंचिद्व्यर्थतां व्रजेत्

由于信心(śraddhā)是施祖礼(śrāddha)之根本,故名为“śrāddha”。当以此心而行时,其中没有任何一分会徒然失落。

Verse 4

अनिष्टमपि राजेन्द्र तस्माच्छ्राद्धं समा चरेत् । विप्रपादोदकं यत्तु भूमौ पतति पार्थिव

因此,噢诸王之主,即使境况不顺,也应如法奉行施罗达(śrāddha)祭。因为,噢大王,洗净婆罗门足的净水一旦落于大地,便能带来神圣功德。

Verse 6

जाता ये गोत्रजाः केचिदपुत्रा मरणं गताः । ते यांति परमां तृप्तिममृतेन यथा सुराः । विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम्

那些生于同一族系却无子而亡的亲族——其中若干人——得至无上满足,如诸天因甘露而欢悦。只要大地尚存,祖先便在莲华之器中饮水,因婆罗门洗足之水的润泽而得安慰。

Verse 7

श्राद्धेऽथ क्रियमाणे तु यत्किंचित्पतति क्षितौ । पुष्पगन्धोदकं चान्नमपि तोयं नरेश्वर

噢人中王,当施罗达(śrāddha)正在举行之时,凡有少许落于地上的——花、香水、食物,乃至清水——皆各以其分,成为供献。

Verse 8

तेन तृप्तिं परां यांति ये कृमित्वमुपागताः । कीटत्वं वापि तिर्यक्त्वं व्यालत्वं च नराधिप

凭借那落地之供献,噢大王,那些已堕为蠕虫者——乃至为昆虫、禽兽,甚至为蛇类者——亦得无上满足。

Verse 9

यदुच्छिष्टं क्षितौ याति पात्रप्रक्षालनोद्भवम् । तेन तृप्तिं परां यांति ये प्रेतत्वमुपागताः

凡由洗涤器皿而生的残余落于地上者,凭此,那些已成饿鬼(preta)者亦得无上满足。

Verse 10

ये चापमृत्युना केचिन्मृत्युं प्राप्ताः स्ववंशजाः । असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम्

并且,凡属自家族系而遭遇非时之死者——未得如法丧仪而亡者、被遗弃者,以及家族中受此苦厄的妇女——亦皆摄入其中,同得其福。

Verse 11

उच्छिष्टभागधेयं स्याद्दर्भेषु विकिरश्च यः । विकिरेण प्रदत्तेन ते तृप्तिं यांति चाखिलाः

将余食散布于达尔婆草上,即成他们所分得之份;凭此散施之供养,他们一切皆得满足。

Verse 12

यत्किंचिन्मंत्रहीनं वा कालहीनमथापि वा । विधिहीनं च संपूर्णं दक्षिणायां तु तद्भवेत्

凡于施行施罗达(śrāddha)之中,或缺真言、或失其时、或乏其仪者——皆由达克希那(dakṣiṇā,敬施之礼物)而得圆满。

Verse 13

तस्मान्न दक्षिणाहीनं श्राद्धं कार्यं विपश्चिता । य इच्छेच्छाश्वतीं तृप्तिं पितॄणामात्मनश्च यः

是故,智者不应行无达克希那之施罗达;若欲令诸祖灵(Pitṛ)与自身同得恒常满足,便当如是。

Verse 14

दक्षिणारहितं श्राद्धं यथैवोषरवर्षितम् । यथा तमसि नृत्यं च गीतं वा बधिरस्य च

无达克希那之施罗达,犹如雨洒碱地;犹如暗中起舞;又如对聋者歌唱。

Verse 15

श्राद्धं दत्त्वा च युक्त्वा च श्राद्धे निष्कामतां व्रजेत् । न स्वाध्यायः प्रकर्तव्यो न ग्रामांतरकं व्रजेत्

既已供献施行Śrāddha并如法圆满,当于Śrāddha之事安住无欲。是日不应行自诵吠陀(svādhyāya),亦不应前往他村。

Verse 16

श्राद्धभुग्रमणीतल्पं तदहर्योऽधिगच्छति । तं मासं पितरस्तस्य जायंते वीर्यभोजिनः

凡食用Śrāddha供食而于当日即赴女床者,便成可责之人;于彼一月,其祖灵(Pitṛ)据说唯以其精力(vīrya)为食而存。

Verse 17

श्राद्धभुक्छ्राद्धदाता च यः सेवयति मैथुनम् । तस्य संवत्सरं यावत्पितरः शुक्रभोजिनः । प्रभवंति न संदेह इत्येषा वैदिकी श्रुतिः

若食用Śrāddha之人或施行Śrāddha之人行于交合(maithuna),则其祖灵(Pitṛ)长达一年唯以精液(śukra)为食而存;此无疑也——此乃吠陀圣传(śruti)之宣示。

Verse 18

श्राद्धे भुक्त्वाथ दत्त्वा वा यः श्राद्धं कुरुतेल्पधीः । स्वाध्यायं पितरस्तस्य यावत्संवत्सरं नृप । व्यर्थश्राद्धफलाः संतः पीड्यंते क्षुत्पिपासया

大王啊,若愚钝之人于Śrāddha中既食或既施之后,又将Śrāddha当作寻常之事而不如法再行,则其祖灵(Pitṛ)长达一年不得此Śrāddha之果报,饥渴所逼而受苦。

Verse 19

श्राद्धे भुक्त्वाऽथ दत्त्वा वा यः श्राद्धं मानवाधमः । ग्रामातरं प्रयात्यत्र तच्छ्राद्धं व्यर्थतां व्रजेत्

若于Śrāddha中既食或既施之后,卑劣之人从彼处前往他村,则此Śrāddha便归于无果。

Verse 20

ब्राह्मणेन न भोक्तव्यं समायाते निमंत्रणे । अथ भुंक्ते च यो मोहात्स प्रयाति ह्यधोगतिम्

婆罗门不应在请柬新至之时进食;若因迷惑仍然食用,必定堕入下劣之境。

Verse 21

यजमानेन च तथा न कार्यं भोजनं परम् । कुर्वंति ये नराः सर्वे ते यांति नरकं ध्रुवम्

同样,祭主(yajamāna,即施行Śrāddha者)其后不应再进第二餐。凡如此行者,必定堕入地狱。

Verse 22

श्राद्धे भुक्त्वाऽथ दत्त्वा वा श्राद्धं यो युद्धमाचरेत् । असंदिग्धं हि तच्छ्राद्धं स मन्दो व्यर्थतं नयेत्

若人在Śrāddha中受食之后,或施设Śrāddha之后,又去争斗交战,则毫无疑问,此Śrāddha因其愚行而归于徒然。

Verse 23

तस्मात्सर्वप्रयत्नेन दोषानेतान्परित्यजेत् । श्राद्धभुग्यजमानश्च विशेषेण महीपते

因此,哦大地之主,当竭尽全力舍弃这些过失——尤其是受食Śrāddha者与祭主(yajamāna,行礼者)。

Verse 218

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धनियमवर्णनंनामाष्टादशोत्तरद्विशततमोऽध्यायः

至此,《圣·斯坎达大往世书》——八万一千颂之汇编——第六部《那伽罗分部》,于哈塔凯湿瓦拉圣域功德赞中,在Śrāddha仪轨篇里,名为《Śrāddha规则之阐述》的第二一八章圆满终结。