Adhyaya 1
Nagara KhandaTirtha MahatmyaAdhyaya 1

Adhyaya 1

第一章以设问开篇:诸仙询问,为何湿婆之林伽(liṅga)被特别礼敬,甚至胜过其他神圣“肢分”或形相。苏多答以阿那尔塔森林的一段因缘:湿婆(Tripurāntaka)因与萨蒂分离而悲恸,化作越常之相进入苦行者聚落——裸形,执颅钵乞食。 苦行者之妇女为其所摄,弃常业而随心;诸男苦行者以为破坏林居清规,遂诅咒湿婆,使其林伽坠地。林伽穿地而下堕至帕塔拉(Pātāla),三界震荡,凶兆遍起。诸天求告梵天;梵天洞悉其因,率众至湿婆前。湿婆言:若非诸天与“再生族”(dvija)同心勤力供奉,决不复还林伽。诸天安慰之:萨蒂将再生为雪山之女高丽(Gaurī)。 于是梵天在帕塔拉先行礼拜,毗湿奴及诸天继而供养。湿婆欢喜,赐福并复立林伽;梵天铸造金林伽而安置,宣称其在帕塔拉以“哈塔凯湿伐罗”(Hāṭakeśvara)之名著称。章末立教:以信心常行林伽供奉——触之、观之、赞之——即为圆满敬礼诸大神理,能得吉祥之灵性果报。

Shlokas

Verse 1

। ओंनमः पुरुषोत्तमाय । अथ स्कान्दे महापुराणे षष्ठनागरखण्डप्रारम्भः । व्यास उवाच । स धूर्जटि जटाजूटो जायतां विजयाय वः । यत्रैकपलितभ्रांतिं करोत्यद्यापि जाह्नवी

唵——敬礼至上之主普鲁绍塔玛。今于《斯坎达摩诃往世书》中,第六部《那伽罗分卷》开篇。毗耶娑曰:愿结发持髻之主——杜尔贾提——赐汝等胜利;在其圣前,迄今阇诃那毗(恒河)仍现“一缕白发”之幻相,殊为奇瑞。

Verse 2

ऋषय ऊचुः । हरस्य पूज्यते लिंगं कस्मादतन्महामते । विशेषात्संपरित्यज्य शेषांगानि सुरासुरैः

诸仙人曰:大智者啊,为何哈罗(湿婆)之林伽受人礼拜——尤其为诸天与阿修罗所奉——而其余肢体却被搁置不敬?

Verse 3

तस्मादेतन्महाबाहो यथावद्वक्तुमर्हसि । सांप्रतं सूत कार्त्स्न्येन परं कौतूहलं हि नः

因此,勇臂者啊,请如法如理为我等详说。此刻,苏多啊,我们怀着极深的好奇,渴望听闻其全貌与细节。

Verse 4

सूत उवाच । प्रश्नभारो महानेष यो भवद्भिरुदाहृतः । कीर्तयिष्ये तथाप्येनं नमस्कृत्य स्वयंभुवे

苏多曰:诸位所提出的此问,确是沉重而重大。即便如此,我仍将宣说——先向自生之主斯瓦扬布顶礼致敬。

Verse 5

आनर्तविषये चास्ति वनं मुनिजनाश्रयम् । मनोज्ञं सर्वसत्त्वानां सर्वर्तुफलितद्रुमम्

在阿那尔塔之地,有一片林苑为牟尼圣者所依止;悦乐一切众生,诸树四时皆结果实。

Verse 6

तत्राश्रमपदं रम्यं सौम्यसत्त्वनिषेवितम् । अस्ति तापससंकीर्णं वेदध्वनिविराजितम्

其处有一处可爱精舍之地,为温和众生所常至;充满苦行者,并以吠陀诵声而辉映。

Verse 7

अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशिभिस्तथा । दन्तोलूखलिभिर्विप्रैः सेवितं चाश्मकुट्टकैः

那神圣林苑为严持誓戒的婆罗门所常至:或唯饮水而住,或唯依风而生,或仅食落叶;或以齿如臼而磨,或以石捣谷而活——如是诸苦行者侍奉其地。

Verse 8

स्नानहोमपरैश्चैव जपस्वाध्यायतत्परैः । वानप्रस्थैस्त्रिदण्डैश्च हंसैश्चापि कुटीचरैः

其间亦住有专志圣浴与火供者,勤修持咒与吠陀自诵者;有林居的婆那普拉斯塔,有持三杖的出家者,有“天鹅”圣贤(haṃsa),亦有居茅庵的隐修者。

Verse 9

स्नातकैर्यतिभिर्दान्तैस्तथा पंचाग्निसाधकैः । कस्यचित्त्वथ कालस्य भगवांस्त्रिपुरांतकः

彼处充满已成礼法的snātaka、调御自心的出家者(yati),以及修“五火苦行”者;而后时日既久,世尊三城摧灭者——特里普拉安塔卡(Tripurāntaka)遂现。

Verse 10

सतीवियोगसंतप्तो भ्रममाण इतस्ततः । तस्मिन्वने समायातः सौम्यसत्त्वनिषेविते

因与萨蒂离别之痛而心如灼烧,祂四处漂泊,遂来到那片森林——为温良安宁的众生所常栖之地。

Verse 11

क्रीडंति नकुला यत्र सार्धं सर्पैःप्रहर्षिताः । पञ्चाननाश्च मातंगैर्वृषदंशास्तथाखुभिः । काकाः कौशिकसंघैश्च वैरभावविवर्जिताः

在那里,獴与蛇欢然同戏;狮与象相伴;素来啮咬伤害之类也与鼠同处;甚至乌鸦与猫头鹰群聚——一切全然无有怨敌之心。

Verse 12

ततश्च भगवान्रुद्रो दृष्ट्वाश्रमपदं तदा । नग्नः कपालमादाय भिक्षार्थं प्रविवेश सः

随后,主鲁陀罗见到那处精舍之地,便入内乞食——裸身而行,手持骷髅钵。

Verse 13

अथ तस्य समालोक्य रूपं गात्रसमुद्भवम् । अदृष्टपूर्वं तापस्यः सर्वाः कामवशं गताः

随后,她们望见祂身相所显的绝妙之美——前所未见——诸位女苦行者尽皆落入欲念的支配之中。

Verse 14

गृहकर्म परित्यज्य गुरुशुश्रूषणानि च । मिथः संभाषणं चक्रुः स्थानेस्थाने च ताः स्थिताः

她们抛下家务,甚至连侍奉长者与师尊之事也不顾,便三三两两站在各处彼此交谈。

Verse 15

एका सा कापि धन्या या चक्रे तस्यावगूहनम् । विश्रब्धा सर्वगात्रेषु तापसस्य महात्मनः

她们之中有一位女子——自以为最为有福——便拥抱那位大苦行圣者,心无疑惧,紧贴其全身诸肢。

Verse 16

तथान्याः कौतुकाविष्टा धावंत्यः सर्वतोदिशम् । दृश्यंते तं समुद्दिश्य विस्तारितविलोचनाः

其余诸女亦为好奇所驱,四方奔走;人们见她们朝他疾趋而来,双目圆睁,急切凝望。

Verse 17

काश्चिदर्द्धानुलिप्तांग्यः काश्चिदेकांजितेक्षणाः । अर्धसंयमितैः कैशैस्तथान्यास्त्यक्तबालकाः

有的女子仅半身涂抹香膏;有的只在一只眼上点抹黑眸膏。又有的头发只半束半挽;还有的惊惶之下弃下孩童,奔走而出。

Verse 18

एवमालोक्यमानः स कामिनीभिर्महेश्वरः । बभ्राम राजमार्गेण भिक्षां देहीति कीर्तयन्

就这样,在众女注目之下,摩醯首罗沿着王道徘徊行走,高声唱呼:“施我乞食!”

Verse 19

अथ ते मुनयो दृष्ट्वा तं तथा विगतांबरम् । कामोद्भवकरंस्त्रीणां प्रोचुः कोपारुणेक्षणाः

于是诸牟尼见他如此赤身——能令妇女情欲生起者——便以怒火灼目,双眼赤红而发言。

Verse 20

यस्मात्पाप त्वयास्माकमाश्रमोऽयं विडंबितः । तस्माल्लिंगं पतत्वाशु तवैव वसुधातले

“罪人啊!既然你嘲弄并玷辱了我们的修行林(āśrama),因此愿你的林伽(liṅga)立刻坠落——就在这大地表面!”

Verse 21

एतस्मिन्नंतरे भूमौ लिंगं तस्य पपात तत् । भित्त्वाथ धरणीपृष्ठं पातालं प्रविवेश ह

就在那一刻,他的林伽(liṅga)坠落于地;裂开大地表层,直入帕塔拉(Pātāla,地下界)。

Verse 22

सोऽपि लिंगपरित्यक्तो लज्जायुक्तो महेश्वरः । गर्तां गुर्वीं समाश्रित्य भ्रूणरूपः समाविशत्

连大自在天(Maheśvara)也——失却林伽而满怀羞惭——依止于一处深坑,化作胎儿之形,进入其中。

Verse 23

अथ लिंगस्य पातेन त्रैलोक्यभयशंसिनः । उत्पाता दारुणास्तस्थुः सर्वत्र द्विजसत्तमाः

随后,由于林伽的坠落,预示三界将遭恐惧的可怖凶兆在各处显现,噢,最胜的再生者啊。

Verse 24

शीर्यते गिरिशृङ्गाणि पतंत्युल्का दिवापि च । त्यजंति सागराः सर्वे मर्यादां च शनैः शनैः

群山之巅崩裂;流星竟在白昼坠落。诸海也渐渐离弃其疆界与岸限。

Verse 25

अथ देवगणाः सर्वे भयसंत्रस्तमानसाः । शक्रविष्णुमुखा जग्मुर्यत्र देवः पितामहः

于是诸天众神心神为惧所震——由释迦罗(因陀罗)与毗湿奴领前——前往神圣的毗多摩诃(梵天)所在之处。

Verse 26

प्रोचुश्च प्रणताः स्तुत्वा स्तोत्रैः सुश्रुतिसंभवैः । त्रैलोक्ये सृष्टिरूपं यत्कमलासनसंस्थितम्

他们俯首顶礼,以出自神圣吠陀的赞颂之歌称扬他;继而启言于那位在三界中具足创造之相、安坐莲华宝座的梵天。

Verse 27

किमिदं किमिदं देव वर्तते ह्यधरोत्तरम् । त्रैलोक्यं सकलं येन व्याकुलत्वमुपागतम्

“这是怎么回事——这究竟是什么,主宰啊,竟以违常之态、上下颠倒般地发生?因此三界一切都陷入骚动不安。”

Verse 28

प्रलयस्येव चिह्नानि दृश्यंते पद्मसंभव । किं सांप्रतमकालेऽपि भविष्यति परिक्षयः

“莲华所生者(梵天)啊,已见如同劫尽坏灭的征兆。难道如今也将有毁灭——失其时节、未及其期——而降临吗?”

Verse 29

सर्वेषां सुरमर्त्यानां दैत्यानां मन्त्रकोविदः । गतिर्भयार्तदेहानां सर्वलोकपितामहः

“对一切众生——诸天与世人,乃至底提耶——他皆通达神圣的谋议与真言;而对被恐惧所逼迫的身心而言,万界之祖父毗多摩诃(梵天)即是归依与所向。”

Verse 30

तेषां तद्वचनं श्रुत्वा देवानां चतुराननः । उवाच सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा

四面者(梵天)听闻诸天之言后,久入禅思,以天眼洞见其事,遂开口宣说。

Verse 31

प्रलयस्य न कालोऽयं सांप्रतं सुरसत्तमाः । शृणुध्वं यन्निमित्तोत्था महोत्पाता भवन्त्यमी

诸位天中最胜者啊,此刻并非劫坏(普拉拉耶)之时。且听我言:这些大凶兆皆由特定因缘而起。

Verse 32

ऋषिभिः पातितं लिंगं देवदेवस्य शूलिनः । शापेनानर्तके देशे कलत्रार्थे महात्मभिः

诸仙(ṛṣi)以诅咒之力,将诸神之神、持三叉戟者(Śūlin)的林伽掷落;在阿那尔塔迦之地,因一桩关乎妻室之事,出自大德圣者的咒诅。

Verse 33

तेनैतद्व्याकुलीभूतं त्रैलोक्यं सचराचरम् । तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः

因此,三界一切——动者与不动者——尽皆惊扰不安。故而我们当往彼处,往大自在天(摩诃伊湿伐罗)所在之地。

Verse 34

येनास्मद्वचनाच्छीघ्रं तल्लिंगं निदधाति सः । नो चेद्भविष्यति व्यक्तमकाले चापि संक्षयः । त्रैलोक्यस्यापि कृत्स्नस्य सत्यमेतन्मयोदितम्

凡听从我等之言而速速重立彼林伽者,必能消弭此患;若不然,则毁灭将昭然发生,甚至未及其时,遍及三界全体。此乃我所宣说之真实。

Verse 35

अथ देवगणाः सर्वे ब्रह्मविष्णुपुरःसराः । आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ

于是诸天众神皆至,由梵天与毗湿奴为首——并有阿底提耶众、婆苏众、鲁陀罗众、毗湿毗天众,以及双阿湿毗尼…

Verse 36

प्रजग्मुस्त्वरितास्तत्र यत्र देवो महेश्वरः । गर्तामध्यगतः सुप्तो लज्जया परया वृतः

他们急速赶往那处,主大自在天所在之地——他卧睡于坑穴中央,被极深的羞惭所遮覆。

Verse 37

देवा ऊचुः । नमस्ते देवदेवेश भक्तानामभयप्रद । नमस्ते जगदाधार शशिराजितशेखर

诸天说道:顶礼于你,诸神之主,赐予 भक्त无畏者!顶礼于你,支撑世界者,发髻之巅饰以月王!

Verse 38

त्वं यज्ञस्त्वं वषट्कारस्त्वमापस्त्वं मही विभो । त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्

你即是祭祀;你即是“vaṣaṭ”之呼;你即是诸水;你即是大地,遍一切的主。由你创造此一切——三界,以及一切动与不动之众。

Verse 39

त्वं पासि च सुरश्रेष्ठ तथा नाशं नयिष्यसि । त्वं विष्णुस्त्वं चतुर्वक्त्रस्त्वं चंद्रस्त्वं दिवाकरः

你护持,诸神中最胜者;你亦引导万有归于寂灭。你即是毗湿奴;你即是四面梵天;你即是月;你即是日。

Verse 40

त्वया विना महादेव न किंचिदिह विद्यते । अपि कृत्वा महत्पापं नरो देव धरातले

离开您,噢摩诃提婆,此处实无一物可存。纵使世间之人,噢主宰,在大地上犯下重罪——

Verse 41

तव नामापि संकीर्त्य प्रयाति त्रिदिवालयम् । महादेव महादेव महादेवेति कीर्तनात्

仅以歌咏您的圣名,便能抵达三天之居处。以唱诵“摩诃提婆、摩诃提婆、摩诃提婆”——凭此名号的祈颂(kīrtana)。

Verse 42

कोटयो ब्रह्महत्यानामगम्यागमकोटयः । सद्यः प्रलयमायांति महादेवेति कीर्तनात्

亿万如梵杀(brahmahatyā)般极重之罪,以及亿万亿万难以言喻的可怖罪业,皆因唱诵“摩诃提婆”而当下灭尽。

Verse 43

विप्रो यथा मनुष्याणां नदीनां वा महार्णवः । तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः

如婆罗门在人中为最上,如大海在诸河中为最上,如是您安住于对一切诸天的主宰之位。

Verse 44

नक्षत्राणां यथा चंद्रः प्रदीप्तानां दिवाकरः । तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः

如月在群星中为最上,如日在诸光明中为最上,如是您安住于对一切诸天的主宰之位。

Verse 45

धातूनां कांचनं यद्वद्गंधर्वाणां च नारदः । तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः

正如黄金为诸金属之首,纳罗陀为诸乾闼婆之尊,如是汝安住于统御一切诸天之主权。

Verse 46

ओषधीनां यथा सस्यं नगानां हेमपर्वतः । तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः

正如谷粮为诸草木之首,金山为诸山之尊,如是汝安住于统御一切诸天之主权。

Verse 47

तस्मात्कुरु प्रसादं नः सर्वेषां च नृणां विभो । संधारय पुनर्लिंगं स्वकीयं सुरसत्तम

因此,主宰啊,愿赐恩于我等,并及一切人类。诸天中最胜者啊,请再度举起并护持汝自有的神圣林伽。

Verse 48

नोचेज्जगत्त्रयं देव नूनं नाशममुपेष्यति । यद्येतद्भूतले लिङ्गं पतति स्थास्यति प्रभो

否则,天神啊,三界必将确然走向毁灭,主宰啊——若此林伽坠落大地,并停留其上。

Verse 49

सूत उवाच । तेषां तद्वचनं श्रुत्वा भगवान्बृषभध्वजः । प्रोवाच प्रणतान्सर्वांस्तान्देवान्व्रीडयान्वितः

苏多说道:闻彼等之言后,具牛旗之世尊,带着几分含羞的矜持,对那一切俯首礼拜于前的诸天开口说道。

Verse 50

मया सतीवियोगार्तियुक्तेन सुरसत्तम । लिंगमेतत्परित्यक्तं शापव्याजाद्द्विजन्मनाम्

噢,诸天中最胜者,我因与萨蒂离别之苦而悲恸,便舍弃了此灵伽——借口说是由“二次生者”(婆罗门)所宣之诅咒。

Verse 51

कोऽलं पातयितुं लिंगं ममैतद्भुवनत्रये । देवो वा ब्राह्मणो वापि वेत्थ यूयमपि स्फुटम्

在三界之中,谁能使我这灵伽坠落——无论是天神,抑或婆罗门?你们自己也明明白白知道。

Verse 52

तस्मान्नैव धरिष्यामि लिंगमेतद्धरातलात् । किमनेन करिष्यामि भार्यया परिवर्जितः

因此,我不再于大地之上扶持此灵伽。既失去妻子,我还要它作甚?

Verse 53

देवा ऊचुः । तव कांता सती नाम या मृता प्राक्सुरोत्तम । सा जाता मेनकागर्भे गौरी नाम हिमाचलात्

诸天说道:噢,诸神中最胜者,你所钟爱的萨蒂,昔日虽已逝去,如今已在梅那迦之胎再生——名为高丽,为喜马察罗之女。

Verse 54

भविष्यति पुनर्भार्या तवैव त्रिपुरांतक । तस्माल्लिंगं समादाय कुरु क्षेमं दिवौकसाम्

她将再次成为你的正妻,噢,诛灭三城者。故当执持此灵伽,护佑天界众生之安泰。

Verse 55

देवदेव उवाच । अद्यप्रभृति मे लिंगं यदि देवा द्विजातयः । पूजयंति प्रयत्नेन तर्हीदं धारयाम्यहम्

天中之天说道:从今日起,若诸天与二次生者以殷勤之心礼拜我的林伽,我便将护持并安立此林伽。

Verse 56

ब्रह्मोवाच । अहं तव स्वयं लिंगं पूजयिष्यामि शंकर । तथान्ये विबुधाः सर्वे किं पुनर्भुवि मानवाः

梵天说道:噢,商羯罗,我将亲自礼拜你的林伽;其余诸神亦复如是——更何况世间的人类呢!

Verse 57

ततः प्रविश्य पातालं देवैः सार्धं पितामहः । स्वयमेवाकरोत्पूजां तस्य लिंगस्य भक्तितः

随后,祖父神(梵天)与诸天同入帕塔拉界,出于虔敬,亲自为那神圣林伽行供养之礼。

Verse 58

तस्मादनंतरं विष्णुः श्रद्धापूतेन चेतसा । तथान्ये विबुधाः सर्वे शक्राद्याः श्रद्धयान्विताः

紧接着,毗湿奴以信心净化其心而礼拜;其余诸神亦皆如此,自释迦罗(因陀罗)起,皆具足圣信(śraddhā)。

Verse 59

ततस्तुष्टो महादेवः पितामहमिदं वचः । प्रोवाच वासुदेवं च विनयावनतं स्थितम्

于是,大自在天(摩诃提婆)心生欢喜,对祖父神(梵天)说了这些话,也对谦恭俯身而立的婆苏提婆(毗湿奴)一并开示。

Verse 60

भवद्भ्यां परितुष्टोऽस्मि तस्मान्मत्तः प्रगृह्यताम् । वरमिष्टं महाभागौ यद्यपि स्यात्सुदुर्लभम्

我对你们二人已极为欢喜;因此,吉祥者啊,从我这里领受你们所愿之恩赐吧,即便那恩赐极其难得。

Verse 61

तावूचतुः । यदि तुष्टोसि देवेश त्रिभागेन समाश्रयम् । आवाभ्यां देहि लिंगेन येनैकत्राश्रयो भवेत्

二者说道:“若你欢喜,诸天之主啊,请借由林伽赐予我们三分共享的住处,使我们得以同归一处、成为合一的依止。”

Verse 62

सूत उवाच । स तथेति प्रतिज्ञाय लिंगमादाय च प्रभुः । स्थाने नियोजयामास सर्वदेवाधिपूजितम्

苏多说道:“主说‘如是’,便应允了;随后取起林伽,将其安置于相应之处——那林伽为诸天众神之主所礼敬。”

Verse 63

ततो हाटकमादाय तदाकारं पितामहः । कृत्वा लिंगं स्वयं तत्र स्थापयामास हर्षितः

随后,毗多摩诃(梵天)取来黄金,依其形相亲自铸成一尊林伽,欢喜地以己手安立于彼处。

Verse 64

प्रोवाच चाथ भो विप्राः साधुनादेन नादयन् । लोकत्रयं समस्तानां शृण्वतां त्रिदिवौकसाम्

随后他宣告道:“噢,婆罗门们!”并高呼“善哉(Sādhu)!”使三界齐鸣回响;诸天住于天界者皆侧耳聆听。

Verse 65

मया ह्याद्यं त्विदं लिंगं हाटकेन विनिर्मितम् । ख्यातिं यास्यति सर्वत्र पाताले हाटकेश्वरम्

今日我以黄金铸成此林伽;它将在帕塔拉处处闻名,号为“哈塔凯湿伐罗”。

Verse 66

तथान्ये मनुजा ये च हाटकादीनि भक्तितः । मणिमुक्तासुरत्नैश्च कृत्वा लिंगानि कृत्स्नशः

同样,其他人也以虔敬之心,用黄金等诸材,并以宝石、珍珠与贵重珠玉,铸作形制完备的林伽。

Verse 67

त्रिकालं पूजयिष्यंति ते यास्यंति परां गतिम् । मृन्मयं संपरित्यज्य नीचधातुमयं तथा

凡于一日三时礼敬此圣相者,必得至上归趣。舍弃泥制之林伽与卑金属所作之林伽,而在此奉行最为尊胜的供养。

Verse 68

एवमुक्त्वा चतुर्वक्त्रः सह सर्वैर्दिवालयैः । जगाम त्रिदिवं सोऽपि कैलासं शशिशेखरः

如是言毕,四面梵天偕诸天众往三界天界而去;而月冠之主(湿婆)亦归于凯拉萨。

Verse 69

एतस्मात्कारणाल्लिंगं पूज्यतेऽत्र सुरासुरैः । हरस्य चोत्तमांगानि परित्यज्य विशेषतः

正因如此,此处之林伽为诸天与阿修罗同所礼敬;尤以暂置哈拉(湿婆)其他至上形相与肢分,而专崇此林伽为要。

Verse 70

ततः प्रभृति तल्लिंगं स्वयं ब्रह्मा व्यवस्थितः । भगवान्वासुदेवश्च तेन पूज्यं शिवं हि तत्

自此以后,梵天(Brahmā)亲自于彼处依此林伽而安住;世尊婆苏提婆(Vāsudeva,即毗湿奴)亦复如是——因此,此林伽确应作为湿婆(Śiva)而受礼敬供奉。

Verse 71

यस्तु पूजयते नित्यं श्रद्धायुक्तेन चेतसा । त्र्यंबकाच्युतब्रह्माद्यास्तेन स्युः पूजितास्त्रयः

然而,凡以具足信心之心念日日礼拜者——由此人,三者皆已受礼:三目主特里央巴迦(Tryambaka,湿婆)、不堕者阿周陀(Acyuta,毗湿奴)与梵天(Brahmā)。

Verse 72

तस्मात्सर्वप्रयत्नेन शिवलिंगं प्रपूजयेत् । स्पर्शयेदीक्षयेन्नित्यं कीर्तयेच्च द्विजोत्तमाः

因此,当以一切努力礼拜湿婆林伽。噢,最胜之二生者,当日日触之、观之,并且高声称扬赞颂之。