Adhyaya 11
Brahma KhandaBrahmottara KhandaAdhyaya 11

Adhyaya 11

第十一章中,苏多延续业报与社会因缘的叙事:先前提到的妓女瓶伽罗,转生为吉尔提玛利尼(西曼提尼之女),以美貌与善德著称。与此同时,一位王子与商人之子苏那耶自幼结为挚友,依礼受诸“桑斯迦罗”仪式(含入门礼 upanayana),并在端正行持中学习诸学。 王子年满十六时,湿婆派瑜伽行者利沙婆来到王宫;王后与王子屡次顶礼,恭敬款待。王后祈请行者慈悲摄受王子,作为护持与教导的师长。 利沙婆遂宣说条理分明的“法之总摄”(dharma-saṅgraha):法以《闻传》(śruti)、《忆传》(smṛti)与《普拉那》(purāṇa)为根本,并依种姓与人生四住(varṇāśrama)而行;敬信于牛、神明、上师与婆罗门;守真实语(唯为护牛与护婆罗门,设极狭之例外);断除对他人财物与妻室的非法欲求,远离嗔怒、欺诳、诽谤与无谓暴力;以节制为行——睡眠、言语、饮食与娱乐皆取中道;择友而避害,亲近善言良策;护佑无依者,对求归依者不施伤害;困厄中亦行布施,并以善名(satkīrti)为德之庄严;治国伦理——审时、审地、量力而行,预防祸害,以正当政策约束罪犯;并立日常湿婆修持:晨起净身,礼敬上师与诸神,供食于湿婆,诸行皆奉献于湿婆,恒常忆念,佩鲁陀罗叉与三道圣灰(tripuṇḍra)标记,持诵五字真言(pañcākṣara)。章末预告后续教法:一部湿婆护身甲(kavaca),称为普拉那秘要,能除罪并赐护佑。

Shlokas

Verse 1

सूत उवाच । पिंगला नाम या वेश्या मया पूर्वमुदाहृता । शिवभक्तार्चनात्पुण्यात्त्यक्त्वा पूर्वकलेवरम्

苏多说道:我先前提到的那位名叫频伽罗(Piṅgalā)的妓女,由于礼敬供养湿婆的信徒而生的功德,舍弃了她先前的身躯。

Verse 2

चन्द्रांगदस्य सा भूयः सीमंतिन्यामजायत । रूपौदार्यगुणोपेता नाम्ना वै कीर्तिमालिनी

她又转生为旃陀罗昂伽陀(Candrāṅgada)之妻,具足美貌、慷慨与诸德,名为吉尔提摩梨尼(Kīrtimālinī)。

Verse 3

भद्रायुरपि तत्रैव राजपुत्रो वणिक्पतेः । ववृधे सदने भानुः शुचाविव महातपाः

就在那裡,婆陀羅優亦即王子,在那位商主之家長大;如同晴明之季日輪漸盛,具大光輝而熠熠生輝。

Verse 4

तस्यापि वैश्यनाथस्य कुमारस्त्वेक उत्तमः । स नाम्ना सुनयः प्रोक्तो राजसूनोः सखाऽभवत्

那位吠舍之長亦有一位卓越的兒子,名曰蘇那耶;他成為王子之友。

Verse 5

तावुभौ परमस्निग्धौ राजवैश्यकुमारकौ । चित्रक्रीडावुदारांगौ रत्नाभरणमंडितौ

那兩位少年——王子與商子——情誼至深;喜樂於種種遊戲,形貌端雅,並以寶石飾物莊嚴其身。

Verse 6

तस्य राजकुमारस्य ब्राह्मणैः स वणिक्पतिः । संस्कारान्कारयामास स्वपुत्रस्यापि विस्तरात्

為了那位王子,商主令婆羅門為其施行諸般薩姆斯迦羅(淨禮);對自己的兒子亦復如是,周備而如法。

Verse 7

काले कृतोपनयनौ गुरुशुश्रूषणे रतौ । चक्रतुः सर्वविद्यानां संग्रहं विनयान्वितौ

及至其時,二人既受近事(upanayana)之灌頂入門,勤於侍奉師長,且具謙恭,遂總攝並通達一切學藝之綱要。

Verse 8

अथ राजकुमारस्य प्राप्ते षोडशहायने । स एव ऋषभो योगी तस्य वेश्मन्युपाययौ

当王子年满十六岁之时,那位圣者——瑜伽行者梨沙婆(Ṛṣabha)——亲至其府邸。

Verse 9

सा राज्ञी स कुमारश्च शिवयोगिनमागतम् । मुहुर्मुहुः प्रणम्योभौ पूजयामासतुर्मुदा

王后与王子见到湿婆瑜伽行者到来,便一再顶礼;二人欢喜供养,恭敬礼敬于他。

Verse 10

ताभ्यां च पूजितः सोऽथ योगीशो हृष्टमानसः । तं राजपुत्रमुद्दिश्य बभाषे करुणार्द्रधीः

蒙二人供养礼敬,诸瑜伽之主心生欢悦;他以慈悲润泽之心,向王子开口说道。

Verse 11

शिवयोग्युवाच । कच्चित्ते कुशलं तात त्वन्मातुश्चाप्यनामयम् । कच्चित्त्वं सर्वविद्यानामकार्षीश्च प्रतिग्रहम्

湿婆瑜伽行者说道:“孩子,你可安好?你母后也无病无恙吗?你是否如法领受了一切学艺之教?”

Verse 12

कच्चिद्गुरूणां सततं शुश्रूषातत्परो भवान् । कच्चित्स्मरसि मां तात तव प्राणप्रदं गुरुम्

“你是否恒常专心侍奉诸师?孩子,你可还记得我——赐你生命的上师?”

Verse 13

एवं वदति योगीशे राज्ञी सा विनयान्विता । स्वपुत्रं पादयोस्तस्य निपात्यैनमभाषत

当瑜伽众主如此开示时,王后怀着谦卑之心,使自己的儿子俯伏于其足下,继而开口说道。

Verse 14

एष पुत्रस्तव गुरो त्वमस्य प्राणदः पिता । एष शिष्यस्तु संग्राह्यो भवता करुणात्मना

“尊敬的上师啊,此子即是你的儿子,因为你于他如赐命之父。故愿你以慈悲为性,摄受并教导这位弟子。”

Verse 15

अतो बन्धुभिरुत्सृष्टमनाथं परिपालय । अस्मै सम्यक्सतां मार्गमुपदेष्टुं त्वमर्हसि

“因此,请护持这无依之人,他已被亲族弃置。你堪当为他正说善人所行之道。”

Verse 16

इति प्रसादितो राज्ञ्या शिवयोगी महामतिः । तस्मै राजकुमाराय सन्मार्गमुपदिष्टवान्

王后如此恳请之后,那位大慧的湿婆瑜伽行者便为王子开示正道。

Verse 17

ऋषभ उवाच । श्रुतिस्मृतिपुराणेषु प्रोक्तो धर्मः सनातनः । वर्णाश्रमानुरूपेण निषेव्यः सर्वदा जनैः

梨沙婆说道:“永恒之法(dharma)在《闻传》(Śruti)、《忆传》(Smṛti)与诸《往世书》(Purāṇa)中皆有宣说。众人应依各自的种姓(varṇa)与住期(āśrama),恒常奉行。”

Verse 18

भज वत्स सतां मार्गं सदेव चरितं चर । न देवाज्ञां विलंघेथा मा कार्षीर्देवहेलनम्

孩子啊,当行贤善之道,依诸天(Deva)所悦之行而住。莫违越神圣之命,亦莫对诸天起轻慢之心。

Verse 19

गोदेवगुरुविप्रेषु भक्तिमान्भव सर्वदा । चांडालमपि संप्राप्तं सदा संभावयातिथिम्

当常怀敬信于牛、诸天(Deva)、师长与婆罗门(Brāhmaṇa)。纵有贱民来至,亦当恒以宾客之礼敬待。

Verse 20

सत्यं न त्यज सर्वत्र प्राप्तेऽपि प्राणसंकटे । गोब्राह्मणानां रक्षार्थमसत्यं त्वं वद क्वचित्

无论何处,纵临性命之危,亦莫舍弃真实。然而为护牛与婆罗门(Brāhmaṇa),于某些情境可权说不实之言。

Verse 21

परस्वेषु परस्त्रीषु देवब्राह्मण वस्तुषु । तृष्णां त्यज महाबाहो दुर्लभेष्वपि वस्तुषु

大臂者啊,当舍离对他人财物、他人妻室,以及诸天(Deva)与婆罗门(Brāhmaṇa)之物的贪求,即便其稀有而诱人亦然。

Verse 22

सत्कथायां सदाचारे सद्व्रते च सदागमे । धर्मादिसंग्रहे नित्यं तृष्णां कुरु महामते

大慧者啊,当恒常培育对善妙法语、端正行持、正净誓愿与圣教的渴慕;并常摄持积聚正法(dharma)及其相应诸德。

Verse 23

स्नाने जपे च होमे च स्वाध्याये पितृतर्पणे । गोदेवातिथिपूजासु निरालस्यो भवानघ

无过者啊,于沐浴净身、诵持真言、火供、研习圣典与祭奠祖灵之事,切莫懈怠;亦当敬奉圣牛、诸天(Deva)与来宾。

Verse 24

क्रोधं द्वेषं भयं शाठ्यं पैशुन्य मसदाग्रहम् । कौटिल्यं दंभमुद्वेगं यत्नेन परिवर्जय

当以勤勉之力,舍离嗔怒、憎恨、恐惧、欺诈、谗言、执著于非、诡曲、虚伪与心神不安。

Verse 25

क्षात्रधर्मरतोऽपि त्वं वृथा हिंसां परित्यज । शुष्कवैरं वृथालापं परनिदां च वर्जय

纵然你奉行刹帝利之法,也当舍弃无益之杀害;当远离空虚的仇怨、无聊的闲谈,以及对他人的苛责。

Verse 26

मृगया द्यूतपानेषु स्त्रीषु स्त्रीविजितेषु च । अत्याहारमतिक्रोधमतिनिद्रामतिश्रमम्

当远离狩猎、赌博、饮酒、沉溺女色与受女子所制;亦当远离过食、过嗔、过眠与过劳。

Verse 27

अत्यालापमतिक्रीडां सर्वदा परिवर्जय

当恒常远离多言与贪玩。

Verse 28

अतिविद्यामतिश्रद्धामतिपुण्यमतिस्मृतिम् । अत्युत्साहमतिख्यातिमतिधैर्यं च साधय

当修广大学识、深厚信心、殊胜功德、坚固忆念、昂扬精进、清净名誉与不动勇毅。

Verse 29

सकामो निजदारेषु सक्रोधो निज शत्रुषु । सलोभः पुण्यनिचये साभ्यसूयो ह्यधर्मिषु

欲当止于自家配偶;怒当唯向仇敌;贪当贪求积集功德;忿当留与行不义之人。

Verse 30

सद्वेषो भव पाखण्डे सरागः सज्जनेषु च । दुर्बोधो भव दुर्मंत्रे बधिरः पिशुनोक्तिषु

当憎恶伪善邪行;当亲爱贤善之人;对恶谋邪劝当难以动摇;对谗言诽语当如聋不闻。

Verse 31

धूर्त्तं चंडं शठं क्रूरं कितवं चपलं खलम् । पतितं नास्तिकं जिह्मं दूरतः परिवर्जय

当远远避开欺诈者、暴戾者、奸佞者、残酷者、赌徒、轻浮恶人、堕落者、无神者与心术不正者。

Verse 32

आत्मप्रशंसा मा कार्षीः परिज्ञातेंगितो भव । धने सर्वकुटुंबे च नात्यासक्तः सदा भव

勿自我称赞;当善察形迹与意向。于财物及于全家眷属,亦常莫生过度执著。

Verse 33

पत्न्याः पतिव्रतायाश्च जनन्याः श्वशुरस्य च । सतां गुरोश्च वचने विश्वासं कुरु सर्वदा

应常常信受贞节守誓之妻、母亲、岳父,以及善人与上师(古鲁)之言。

Verse 34

आत्मरक्षापरो नित्यमप्रमत्तो दृढव्रतः । विश्वासं नैव कुर्वीथाः स्वभृत्येष्वपि कुत्र चित्

当恒常以自护为先,警觉不怠,誓愿坚固;切莫处处轻信,甚至对自己的仆从亦然。

Verse 35

विश्वस्तं मा वधीः कंचिदपि चोरं महामते । अपापेषु न शंकेथाः सत्यान्न चलितो भव

大慧者啊,莫加害于信托于你之人,即便是盗贼亦然;勿疑无罪之人,且莫从真理而动摇。

Verse 36

अनाथं कृपणं वृद्धं स्त्रियं बालं निरागसम् । परिरक्ष धनैः प्राणैर्बुद्ध्या शक्त्या बलेन च

当护持孤苦无依者、贫乏者、老者、妇女、孩童与无过者:以财物、以生命、以智慧、以能力、以力量而护之。

Verse 37

अपि शत्रुं वधस्यार्हं मा वधीः शरणागतम् । अप्यपात्रं सुपात्रं वा नीचो वापि महत्तमः

纵使敌人当诛,亦莫杀来投求庇护者——无论其不堪或堪当,卑下或尊贵。

Verse 38

यो वा को वापि याचेत तस्मै देहि शिरोपि च । अपि यत्नेन महता कीर्तिमेव सदार्जय

无论谁来向你乞求,都当施与他,纵使以自身之首为代价。以大精进,恒常只求成就清净的善名(satkīrti)。

Verse 39

राज्ञां च विदुषां चैव कीर्तिरेव हि भूषणम् । सत्कीर्तिप्रभवा लक्ष्मीः पुण्यं सत्कीर्तिसंभवम्

对国王与学者而言,唯有名声才是真正的庄严饰物。福泽由善名而生,功德(puṇya)亦由善名而起。

Verse 40

सत्कीर्त्या राजते लोकश्चंद्रश्चंद्रिकया न्यथा । गजाश्वहेमनिचयं रत्नराशिं नगोपमम्

世间因善名而光辉,正如明月因月光而皎洁;并非因象马成堆、黄金满藏,或如山般的珠宝聚积。

Verse 41

अकीर्त्योपहतं सर्वं तृणवन्मुंच सत्वरम् । मातुः कोपं पितुः कोपं गुरोः कोपं धनव्य यम्

凡被恶名所伤、所染者,当速速弃之,如弃草芥。切莫招致母亲之怒、父亲之怒与上师之怒;此等皆能败坏财富与安泰。

Verse 42

पुत्राणामपराधं च ब्राह्मणानां क्षमस्व भोः । यथा द्विजप्रसादः स्यात्तथा तेषां हितं चर

先生啊,请宽恕你儿子与婆罗门的过失。为他们的利益而行,使诸“二次出生者”(dvija)得以欢喜垂恩。

Verse 43

राजानं संकटे मग्नमुद्धरेयुर्द्विजोत्तमा । आयुर्यशो बलं सौख्यं धनं पुण्यं प्रजोन्नतिः

最殊胜的二次生者(婆罗门等)能救拔陷于灾厄的国王;由其护持而生长寿、名誉、力量、安乐、财富、福德(puṇya)以及臣民的兴盛。

Verse 44

कर्मणा येन जायेत तत्सेव्यं भवता सदा । देशं कालं च शक्तिं च कार्यं चा कार्यमेव च

凡能生起善果之行持,当恒常奉行。并当审察处所、时机、自身能力,以及应作与不应作之事。

Verse 45

सम्यग्विचार्य यत्नेन कुरु कार्यं च सर्वदा । न कुर्याः कस्यचिद्बाधां परबाधां निवारय

当以正思审察而后,恒常勤勉行其所当行。勿伤害任何人;并当制止他人所作之伤害。

Verse 46

चोरान्दुष्टांश्च बाधेथाः सुनीत्या शक्तिमत्तया । स्नाने जपे च होमे च दैवे पित्र्ये च कर्मणि

当以善政与有力之威制止盗贼与恶人;并当勤于沐浴净身、持诵(japa)、火供(homa),以及奉神与祭祖之仪。

Verse 47

अत्वरो भव निद्रायां भोजने भव सत्वरः । दाक्षिण्ययुक्तमशठं सत्यं जनमनोहरम्

于睡眠不必急促;于饮食当按时适度而敏捷。应具谦和礼让,无欺无诈,真实不妄,且悦人心意。

Verse 48

अल्पाक्षरमनंतार्थं वाक्यं ब्रूहि महामते । अभीतो भव सर्वत्र विपक्षेषु विपत्सु च

大智者啊,请说一句字少而义无穷的话。于一切处当无所畏惧——在对手之间,乃至灾厄之时亦然。

Verse 49

भीतो भव ब्रह्मकुले न पापे गुरुशासने । ज्ञातिबंधुषु विप्रेषु भार्यासु तनयेषु च

当敬畏婆罗门之族统;切莫轻慢罪业;亦当畏惧上师之教诫与戒律。对亲族朋友、诸婆罗门、妻室与诸子亦须谨慎。

Verse 50

समभावेन वर्तेथास्तथा भोजनपंक्तिषु । सतां हितोपदेशेषु तथा पुण्य कथासु च

当以平等心而行,亦如在同席用餐之列。又当安住而受持贤善之人有益的教诲,并聆听神圣增福的功德故事。

Verse 51

विद्यागोष्ठीषु धर्म्यासु क्वचिन्मा भूः पराङ्मुखः । शुचौ पुण्यजलस्यांते प्रख्याते ब्रह्मसंकुले

在合乎法义的学问集会中,切莫转身背离。应居于清净之处——在圣水之滨——名闻遐迩,婆罗门云集之地。

Verse 52

महादेशे शिवमये वस्तव्यं भवता सदा । कुलटा गणिका यत्र यत्र तिष्ठति कामुकः

汝当常住于广大之境,遍满湿婆之神圣。凡有放荡之女或娼伎所在之处,凡有为欲火所驱之人逗留之处——

Verse 53

दुर्देशे नीचसंबाधे कदाचिदपि मा वस । एकमेवाश्रितोपि त्वं शिवं त्रिभुवनेश्वरम्

切莫哪怕片刻住在恶地,那里拥挤着卑劣之人。纵然你唯独归依于祂——湿婆,三界之主——

Verse 54

सर्वान्देवानुपासीथास्तद्दिनानि च मानयन् । सदा शुचिः सदा दक्षः सदा शांतः सदा स्थिरः

当礼敬一切天神,尊奉他们的圣日。常保清净,常具才能,常住寂静,常得安稳。

Verse 55

सदा विजित षड्वर्गः सदैकांतो भवानघ । विप्रान्वेदविदः शांतान्यतींश्च नियतोज्वलान्

常能降伏内在六敌,专一归向那唯一者,噢无垢之人。应敬近通晓吠陀的婆罗门、安和之士,以及持戒坚定、光辉炽然的苦行者。

Verse 56

युग्मम् । पुण्यवृक्षान्पुण्यनदीः पुण्यतीर्थं महत्सरः । धेनुं च वृषभं रत्नं युवतीं च पतिव्रताम्

当敬奉圣树、圣河、圣地渡口(tīrtha)与广大湖泊;亦当敬奉母牛、公牛、珍宝,以及守贞奉夫的年轻女子。

Verse 57

आत्मनो गृहदेवांश्च सहसैव नमस्कुरु । उत्थाय समये ब्राह्मे स्वाचम्य विमलाशयः

当即向自家宅邸的护持神明顶礼。于梵时(黎明前)起身,以清净之心行阿遮摩那(ācamana)净口仪。

Verse 58

नमस्कृत्यात्मगुरुवे ध्यात्वा देवमुमापतिम् । नारायणं च लक्ष्मीशं ब्रह्माणं च विनायकम्

先礼敬自身的灵性导师,观想主——乌玛之夫乌玛帕提(湿婆);亦当敬礼那罗延那、吉祥天女拉克希米之主(毗湿奴)、梵天与毗那耶迦(伽内沙)。

Verse 59

स्कन्दं कात्यायनीं देवीं महालक्ष्मीं सरस्वतीम् । इन्द्रादीनथ लोकेशान्पुण्यश्लोकानृषीनपि

亦当礼敬斯坎达、女神迦底耶耶尼、摩诃拉克希米与萨拉斯瓦蒂;同样礼敬因陀罗等诸世界之主,以及以圣名颂扬的诸仙(ṛṣi)。

Verse 60

चिंतयित्वाथ मार्त्तंडमुद्यंतं प्रणमेत्सदा । गंधं पुष्पं च तांबूलं शाकं पक्वफलादिकम्

随后观想升起的摩尔坦达(太阳神),应常常顶礼。并奉献香、花、槟榔、青蔬与熟果等供品。

Verse 61

शिवाय दत्त्वोपभुंक्ष्व भक्ष्यं भोज्यं प्रियं नवम् । यद्दत्तं यत्कृतं जप्तं यत्स्नातं यद्धुतं स्मृतम्

先供奉于湿婆,然后享用可嚼可食之物,鲜新而悦意。凡所布施、所行之事、所作持诵(japa)、所沐浴之功、所投火供养、所忆念者——

Verse 62

यच्च तप्तं तपः सर्वं तच्छिवाय निवेदय । भुंजानश्च पठन्वापि शयानो विहरन्नपि । पश्यञ्छृण्न्ववदन्गृह्णञ्छिवमेवानुचिंतय

凡你所修的一切苦行,悉皆奉献于湿婆。无论进食或诵读,卧息或行止;见、闻、言、取之时,唯当恒常观念湿婆。

Verse 63

रुद्राक्षकंकणलसत्करदंडयुग्मो मालांतरालधृतभस्म सितत्रिपुंडूः । पंचाक्षरं परिपठन्परमंत्रराजं ध्यायन्सदा पशुपतेश्चरणं रमेथाः

双臂佩戴闪耀的鲁陀罗珠(rudrākṣa)手环,圣灰夹持于花鬘之间,额上明净三道圣纹(tripuṇḍra);恒常诵持五字真言——诸咒中王——并常住观想,安住欢喜于帕舒帕提(湿婆)莲足。

Verse 64

इति संक्षेपतो वत्स कथितो धर्मसंग्रहः । अन्येषु च पुराणेषु विस्तरेण प्रकीर्तितः

如是,亲爱的孩子,此处仅以简略宣说法(dharma)之总摄;在其他《普拉那》中则更为详尽地弘扬。

Verse 65

अथापरं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् । जयप्रदं सर्वविपद्विमोचनं वक्ष्यामि शैवं कवचं हिताय ते

此外,我将为你宣说湿婆护甲真言(Śaiva kavaca)——诸《普拉那》之秘:清净无垢,尽除罪业洪流,赐予胜利,解脱一切灾厄,为汝利益。