Adhyaya 84
Avanti KhandaReva KhandaAdhyaya 84

Adhyaya 84

第84章以马尔坎ḍ耶亚所追忆的上古传说展开,置于凯拉萨的框架之中:众生求受神圣教诲,而得蒙赐示。罗波那既灭、罗刹尽除、秩序复归之后,哈奴曼前往凯拉萨,却先被难提阻拦,由此引出对“诛罗刹之业”所遗余垢的省察,以及依规定朝圣行持而得净除之道。湿婆遂列举能净罪的诸河,并指示哈奴曼前往勒瓦河(Revā)南岸、索摩那陀附近的一处殊胜圣地;于彼沐浴并修严峻苦行,即能消融与杀戮相关的幽暗业障。 湿婆拥抱哈奴曼,赐予恩愿,并建立此处为“猴圣地”卡毗提尔塔(Kapitīrtha),其灵伽名为“哈奴曼特伊湿瓦罗”(Hanūmanteśvara),宣示其能除罪、成就祖先施食祭(śrāddha),并令布施功德倍增。随后叙及罗摩在勒瓦河畔的苦行(尤以二十四年为著)、罗摩与罗什曼那安立灵伽,以及因“水罐(kumbha)之水”意象而显现的库姆贝湿瓦罗(Kumbheśvara,亦称Kalākumbha):诸仙汇聚诸圣地之水而成其缘起。章末以详尽的果报赞(phalāśruti)说明:勒瓦沐浴之益、瞻礼灵伽之功(含“观三灵伽”之说)、施行śrāddha使祖灵长久超升之效,以及关于布施的训诫——尤重施牛(go-dāna)与珍贵供施——其果报被称为恒久不坏。结语劝人以戒律与恭敬朝礼库姆贝湿瓦罗及其相关灵伽,于乔提什玛提城(Jyotiṣmatīpurī)及其近域,使此圣地成为勒瓦圣域(Revākhaṇḍa)神圣版图中的规范朝圣枢纽。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । अत्रैवोदाहरन्तीममितिहासं पुरातनम् । कैलासे पृच्छते भक्त्या षण्मुखाय शिवोदितम्

圣者马尔坎德耶说道:就在此处,我将讲述一段古老的圣传——为湿婆所宣说——当年在凯拉萨山上,有人以虔敬向六面神萨ṇ穆迦(斯甘达)请问此事。

Verse 2

ईश्वर उवाच । पूर्वं त्रेतायुगे स्कन्द हतो रामेण रावणः । चतुर्दश तदा कोट्यो निहता ब्रह्मरक्षसाम्

主(湿婆)说道:往昔在特雷塔纪,哦斯甘达,罗摩诛灭了罗波那;当时又有十四俱胝的婆罗门罗刹(brahma-rākṣasa)被歼除。

Verse 3

हतेषु तेषु वै तत्र रक्षणाय दिवौकसाम् । महानन्दस्तदा जातस्त्रिषु लोकेषु पुत्रक

当他们在那里被诛灭,为护佑天界众生之故,亲爱的孩子啊,三界之中遂生起大欢喜。

Verse 4

ततः सीतां समासाद्य समं वानरपुंगवैः । रामोऽप्ययोध्यामायातो भरतेन कृतोत्सवः । तस्मै समर्पयामास स राज्यं लक्ष्मणाग्रजः

随后,罗摩与诸位最杰出的婆那罗同往,迎回悉多;他也回到阿踰陀,彼处婆罗多已备下庆典。于是,罗摩——罗什曼那之兄——将王国托付给婆罗多。

Verse 5

तस्मिन्प्रशासति ततो राज्यं निहतकण्टकम् । कृतकार्योऽथ हनुमान्कैलासमगात्पुरा

当他执政之时,国土已除尽荆棘——诸患与仇敌——哈奴曼使命圆满,遂前往凯拉萨圣山。

Verse 6

ततो नन्दी प्रतीहारो रुद्रांशमपि तं कपिम् । न च संगमयामास रुद्रेणाघौघहारिणा

随后,门卫难提不让那位猿者——虽为鲁陀罗之一分——觐见鲁陀罗,那位消除罪业洪流者。

Verse 7

तेन पृष्टस्तदा नन्दी किं मया पातकं कृतम् । येन रुद्रवपुः पुण्यं न पश्याम्यम्बिकान्वितम्

他当时被问及,便说:“我犯了什么罪,竟不能瞻见与安比迦同在的圣鲁陀罗之身?”

Verse 8

नन्द्युवाच । त्वयावतरणं चक्रे कपीन्द्रामरहेतुना । तथापि हि कृतं पापमुपभोगेन शाम्यति

难提说道:“猿王啊,你的降世确为诸天之故。即便如此,所作之罪,唯有亲受其果,方得消尽。”

Verse 9

हनुमानुवाच । किं मयाकारि तत्पापं नन्दिन्देवार्थकारिणा । राक्षसाश्च हता दुष्टा विप्रयज्ञाङ्गघातिनः

哈奴曼说道:“难提啊,我为诸天之事而行,何罪之有?我所诛者乃凶恶罗刹——毁坏婆罗门与祭祀诸分者。”

Verse 10

ततस्तदालापकुतूहली हरो निजांशभाजं कपिमुग्रतेजसम् । उवाच द्वारान्तरदत्तदृष्टिः पुरःस्थितं प्रेक्ष्य कपीश्वरं पुनः

于是,诃罗(湿婆)因那番谈话而生好奇,再次开口——自门内投去目光——凝视那位立于面前、威猛而光焰凛烈的猴王;他分受了湿婆自身的神圣分分。

Verse 11

ईश्वर उवाच । गङ्गा गया कपे रेवा यमुना च सरस्वती । सर्वपापहरा नद्यस्तासु स्नानं समाचर

自在天(湿婆)说:“猴啊,恒河、伽耶、瑞瓦、亚穆那与萨拉斯瓦蒂——这些河流能除尽诸罪。你当在其中行圣浴。”

Verse 12

नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । सोमनाथसमीपस्थं तत्र त्वं गच्छ वानर

在那尔摩陀河的南岸,有一处极其庄严华美的圣地(tīrtha),近于索摩那他。去那里吧,婆那罗。

Verse 13

तत्र स्नात्वा महापापं गमिष्यति ममाज्ञया । उत्पत्य वेगाद्धनुमाञ्छ्रीरेवादक्षिणे तटे

“你在那里沐浴之后,重罪将依我之命而离散。”随即哈奴曼迅捷腾跃,抵达瑞瓦河吉祥的南岸。

Verse 14

जगाम सुमहानादस्तपश्चक्रे सुदुष्करम् । तस्य वै तप्यमानस्य रक्षोवधकृतं तमः

他发出震天巨吼而前行,修行极其艰难的苦行(tapas)。当他精进苦修时,由诛灭罗刹所生的幽暗开始消散。

Verse 15

विलीनं पार्थ कालेन कियतेशप्रसादतः । ततो देवैः समं देवस्तत्तीर्थमगमद्धरः

婆尔他啊,随着时日推移,蒙依湿伐(Īśa)之恩,那黑暗消融殆尽。于是,哈罗(Hara)神与诸天同往彼圣渡处(tīrtha)。

Verse 16

कपिमालिङ्गयामास वरं तस्मै प्रदत्तवान् । अद्यप्रभृति ते तीर्थं भविष्यति न संशयः

他拥抱那猴王,并赐予恩愿:“自今日起,此处即为你的圣渡处(tīrtha),毫无疑惑。”

Verse 17

कपितीर्थं ततो जातं तस्थौ तत्र स्वयं हरः । हनूमन्तेश्वरो नाम्ना सर्वहत्याहरस्तदा

由此便生起名为“卡毗提尔塔”(Kapitīrtha)的圣渡处。湿婆(Śiva)亲自驻于其地,号“哈奴曼提湿伐罗”(Hanūmanteśvara),当时亦成能除最重罪业者。

Verse 18

तत्र तीर्थे तु यः स्नात्वा भक्त्या लिङ्गं प्रपूजयेत् । सर्वपापानि नश्यन्ति हरस्य वचनं यथा

凡于彼圣渡处沐浴,并以虔敬礼拜湿婆林伽(Śiva-liṅga)者,一切罪垢皆灭,正如哈罗(Hara)所宣说。

Verse 19

तत्रास्थीनि विलीयन्ते पिण्डदानेऽक्षया गतिः । यत्किंचिद्दीयते तत्र तद्धि कोटिगुणं भवेत्

在彼处,甚至遗骨亦被说会消融;以供献“品荼”(piṇḍa,祭食)则令亡者得不坏之福。凡在此所施之物,其功德皆成百万倍。

Verse 20

हनुमानप्ययोध्यायां रामं द्रष्टुमथागमत् । चकार कुशलप्रश्नं स्वस्वरूपं न्यवेदयत्

哈奴曼也来到阿踰陀,为了瞻仰罗摩。他先问候圣王安康,继而启示自身的身份与真实本性。

Verse 21

श्रीराम उवाच । कुर्वतो देवकार्यं ते मम कार्यं च कुर्वतः । ततोऽहमपि पापीयांस्तपस्तप्स्याम्यसंशयम्

圣罗摩说道:“当你成就诸天之事,也完成我的使命之时,我却似乎更为罪垢所累;因此我必定无疑要修行苦行(tapas)。”

Verse 22

तत्रैव दक्षिणे कूले रेवायाः पापहारिणि । चतुर्विंशतिवर्षाणि तपस्तेपेऽथ राघवः

就在那儿,在能灭罪的瑞瓦河之南岸,罗伽婆(罗摩)修行苦行二十四年。

Verse 23

ज्योतिष्मतीपुरीसंस्थः श्रीरेवास्नानमाचरन् । तस्य शुश्रूषणं चक्रे लक्ष्मणोऽपि तदाज्ञया

他住在光明城(Jyotiṣmatī),常行于瑞瓦河的吉祥沐浴仪轨。奉其命令,罗什曼那也侍奉左右,尽心供事。

Verse 24

स्थापयामासतुर्लिङ्गे तौ तदा रामलक्ष्मणौ । प्रभावात्सत्यतपसो रेवातीरे महामती । निष्पापतां तदा वीरौ जग्मतू रामलक्ष्मणौ

其时,罗摩与罗什曼那在彼处安立湿婆林伽。噫,智者啊,凭借他们在瑞瓦河畔真实不虚的苦行之力,这两位英勇的兄弟遂得离罪清净。

Verse 25

ततस्तदा देवपुरोगमो हरो गतो हि वै पुण्यमुनीश्वरैः सह । आगत्य तीर्थं च वरं ददौ तदा निजां कलां तत्र विमुच्य तीर्थे

于是,哈罗(湿婆)在诸天前导、圣贤牟尼随侍之下到达彼处。抵达后,他赐予恩愿,并将此地加持为殊胜的圣地(tīrtha),在那神圣渡口释放出自身神力的一分。

Verse 26

मुनिभिः सर्वतीर्थानां क्षिप्तं कुम्भोदकं भुवि । एकस्थं लिङ्गनामाथ कलाकुम्भस्तथाभवत्

诸牟尼将坛罐中的水倾洒于大地——那是汇集自一切圣地(tīrtha)的净水。就在此一处,显现出一尊名为“卡拉库姆巴”(Kalākumbha)的林伽。

Verse 27

कुम्भेश्वर इति ख्यातस्तदा देवगणार्चितः । रामोऽपि पूजयामास तल्लिङ्गं देवसेविवतम्

于是那林伽便以“库姆贝湿伐罗”(Kumbheśvara)之名闻名,为诸天众神所礼拜;罗摩亦敬奉此林伽——常有天众(Deva)侍奉守护。

Verse 28

ततो वरं ददौ देवो रामकीर्त्यभिवृद्धये । चतुर्विंशतिमे वर्षे रामो निष्पापतां गतः

随后,主神赐下恩愿,以增长罗摩的声名;而在第二十四年,罗摩证得无罪清净之境。

Verse 29

यदा कन्यागतः पङ्गुर्गुरुणा सहितो भवेत् । तदेव देवयात्रेयमिति देवा जगुर्मुदा

“当布里哈斯帕提(木星,亦称‘跛者’)进入处女宫(Kanyā),并与导师(Guru)同在之时,正是神圣朝圣的时节。”诸天欢喜歌咏如是。

Verse 30

यथा गोदावरीतीर्थे सर्वतीर्थफलं भवेत् । तथात्र रेवास्नानेन लिङ्गानां दर्शनैर्न्ःणाम्

正如在戈达瓦丽圣地可得一切圣地之果报,如是于此:在瑞瓦(纳尔马达)河中沐浴,并瞻礼诸林伽者,众人亦得同等功德。

Verse 31

करिष्यन्त्यत्र ये श्राद्धं पित्ःणां नर्मदातटे । कुम्भेश्वरसमीपस्थास्तत्फलं शृणु षण्मुख

凡在纳尔马达河岸、近于库姆贝湿伐罗处,为祖灵(Pitṛ)修行施食祭(śrāddha)者——请听吧,哦六面者(Ṣaṇmukha),他们所得之果报。

Verse 32

यावन्तो रोमकूपाः स्युः शरीरे सर्वदेहिनाम् । तावद्वर्षप्रमाणेन पित्ःणामक्षया गतिः

众生之身有多少毛孔,便以同等年数,祖灵(Pitṛ)获得不灭的进益与升进。

Verse 33

पृथिव्यां देवताः सर्वाः सर्वतीर्थानि यानि तु । लभन्ते तत्फलं मर्त्या लिङ्गत्रयविलोकनात्

世间一切天神与一切圣地之果报,凡人但以瞻礼三座林伽,便能尽得其功德。

Verse 34

अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् । सरोगो मुच्यते रोगान्नात्र कार्या विचारणा

无子者得子,贫乏者得财,患病者脱离诸疾——于此处不必疑虑,更无需思量。

Verse 35

सिंहराशिं गते जीवे यत्स्याद्गोदावरीफलम् । तद्द्वादशगुणं स्कन्द कुम्भेश्वरसमीपतः

当木星进入狮子宫之时,在戈达瓦丽河所获之功德——噢,斯甘达——于库姆贝湿伐罗近旁同样增为十二倍。

Verse 36

ये जानन्ति न पश्यन्ति कुम्भशम्भुमुमापतिम् । नर्मदादक्षिणे कूले तेषां जन्म निरर्थकम्

凡知库姆婆商布——乌玛之主——却不在那尔摩达河南岸瞻礼者,其出生皆成虚空无益。

Verse 37

यथा गोदावरीयात्रा कर्तव्या मुनिशासनात् । चतुर्विंशतिमे वर्षे तथेयं देवभाषितम्

正如依诸牟尼之教令,当行戈达瓦丽朝圣;同样,此一行持乃诸天所宣说,应于第二十四年奉行。

Verse 38

यावच्चन्द्रश्च सूर्यश्च यावद्वै दिवि तारकः । तावत्तदक्षयं दानं रेवाकुम्भेश्वरान्तिके

只要月与日长存,只要天际群星犹在,于瑞瓦—库姆贝湿伐罗近旁所施之布施,便如是长久而不坏。

Verse 39

महादानानि देयानि तत्र लौकैर्विचक्षणैः । गोदानमत्र शंसन्ति सौवर्णं राजतं तथा

于彼处,明达之人当行大施。其地尤称赞施牛之供养,亦同样称许施金与施银。

Verse 40

यस्याः स्मरणमात्रेण नश्यते पापसञ्चयः । स्नानेन किं पुनः स्कन्द ब्रह्महत्यां व्यपोहति

那神圣的瑞瓦河,仅凭忆念便能摧毁罪业的积聚。更何况啊,斯甘达,在她水中沐浴,连弑婆罗门之罪亦能洗除。

Verse 41

तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्याद्युधिष्ठिर । एकोत्तरं कुलशतमुद्धरेच्छिवशासनात्

在那圣地渡口沐浴之后又行施罗陀(śrāddha)者,啊,尤提士提罗,依湿婆之法令,能超度其族系一百零一代。

Verse 42

यानि कानि च तीर्थानि चासमुद्रसरांसि च । शिवलिङ्गार्चनस्येह कलां नार्हन्ति षोडशीम्

无论有多少圣地渡口,无论有多少湖泊与水域——乃至大海——都不及在此礼拜湿婆林伽所得功德的十六分之一。

Verse 43

एवं देवा वरं दत्त्वा हरीश्वरपुरोगमाः । स्वस्थानमगमन् पूर्वं मुक्त्वा तन्नाम चोत्तमम्

于是诸天——以哈利湿伐罗为首——赐下恩愿后,回归各自天界;并先宣扬了那圣地最殊胜的名号。

Verse 44

तीर्थस्यास्य वरं दत्त्वा स रामो लक्ष्मणाग्रजः । अयोध्यां प्रविवेशासौ निष्पापो नर्मदाजलात्

向此圣地赐福之后,罗摩——罗什曼那的长兄——进入阿踰陀;因那尔摩陀河之水而离罪清净。

Verse 45

सौवर्णीं च ततः कृत्वा सीतां यज्ञं चकार सः । अनुमन्त्र्य मुनींल्लोकान्देवताश्च निजं कुलम्

随后,他塑成一尊金色的悉多,举行祭祀(yajña),并依礼恭请诸牟尼、众人、诸天神与本族亲眷同来。

Verse 46

पुरा त्रेतायुगे जातं तत्तीर्थं स्कन्दनामकम् । नियमेन ततो लोकैः कर्तव्यं लिङ्गदर्शनम्

在久远的特雷塔纪(Tretā Yuga),那处圣地渡口(tīrtha)出现,名为“斯坎达(Skanda)”。因此众人应以戒律与规行,前往彼处瞻礼灵伽(liṅga)。

Verse 47

तावत्पापानि देहेषु महापातकजान्यपि । यावन्न प्रेक्षते जन्तुस्तत्तीर्थं देवसेवितम्

诸罪常寄于有身众生之中——即便是由大罪(mahāpātaka)所生者亦然——直到那生命得见诸天所侍奉礼敬的圣地渡口(tīrtha)。

Verse 48

ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । ज्योतिष्मतीपुरीसंस्थं ये द्रक्ष्यन्ति हरं परम्

诚然有福者,乃彼等大心之人;其生得以圆满——凡将得见居于光明城(Jyotiṣmatī)之至上哈罗(Hara)者。

Verse 49

तस्मान्मोहं परित्यज्य जनैर्गन्तव्यमादरात् । तीर्थाशेषफलावाप्त्यै तीर्थं कुम्भेश्वराह्वयम्

是故当舍离迷妄,众人应以恭敬之心前往名为“库姆贝湿伐罗(Kumbheśvara)”的圣地渡口(tīrtha),以获得一切圣地功德之圆满果报。

Verse 50

मार्कण्डेय उवाच । श्रुत्वेति शम्भुवचसा स षडाननोऽथ नत्वा पितुः पदयुगाम्बुजमादरेण । सम्प्राप्य दक्षिणतटं गिरिशस्रवन्त्याः कीशाग्र्यरामकलशाख्यशिवान् ददर्श

马尔坎德耶说:听罢商布(湿婆)的言语,六面尊者便恭敬顶礼父亲那如莲花般的双足。抵达名为吉里沙斯拉万蒂的河流南岸时,他见到了名为基沙阿格里亚、罗摩与卡拉沙的诸位湿婆圣相。

Verse 84

। अध्याय

章(章节标记)。','translation_ar':'فصل (علامة الفصل).