Adhyaya 69
Avanti KhandaReva KhandaAdhyaya 69

Adhyaya 69

马尔坎德耶叙述一段朝圣次第,引人前往殊胜的“曼伽勒湿伐罗”(Maṅgaleśvara)。故事说此圣所由“地之子”布弥子(Maṅgala/阿伽罗迦,Aṅgāraka)为众生福祉而建立。于月相第十四日,湿婆(商羯罗、戴月者Śaśiśekhara)因至诚奉爱而显现为曼伽勒湿伐罗,并赐予恩愿。 曼伽罗祈求生生世世恒常蒙恩,并申明自己出自湿婆身汗,居于诸“行星神”(graha)之列;又愿诸天承认并礼敬他。湿婆允诺:在此地,主神将以曼伽罗之名为世人所称,随即隐没。曼伽罗遂安立林伽,以瑜伽之力奉事供养。 本章继而开示戒行与仪轨:曼伽勒湿伐罗林伽能除诸苦。智者当于圣渡处(tīrtha)令婆罗门欢喜,尤以夫妇同修之仪为胜,并修持与阿伽罗迦相关之誓戒(vrata)。文中列出誓戒圆满时为湿婆所施之供施:牛与公牛、红衣、特定颜色之牲畜,以及伞、床榻、红花鬘与涂香等,皆须内心清净而施。又教于两半月之第四与第八日行祖先祭(śrāddha),并戒除财利欺诈。其果报为:祖先满足一劫(yuga),得吉祥子嗣并屡生善位,因圣地威力而身光焕发;常以信敬诵读此事者,罪垢得除。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । ततो गच्छेत्तु राजेन्द्र मङ्गलेश्वरमुत्तमम् । स्थापितं भूमिपुत्रेण लोकानां हितकाम्यया

圣者马尔坎德耶(Śrī Mārkaṇḍeya)说道:于是,王者啊,当往至最胜的曼伽勒湿伐罗(Maṅgaleśvara),乃地之子为众生福祉而建立者。

Verse 2

तोषितः परया भक्त्या शङ्करः शशिशेखरः । चतुर्दश्यां गुरुर्देवः प्रत्यक्षो मङ्गलेश्वरः

因至上的虔敬而欢喜的商羯罗——以月为冠者——显现为“曼伽勒湿伐罗”。在月相第十四日,神圣的上师于彼处亲自显现。

Verse 3

ब्रूहि पुत्र वरं शुभ्रं तं ते दास्यामि मङ्गल

“说吧,我的孩子,说出一个清净吉祥的愿赐;那愿赐我必赐予你,吉祥者啊。”

Verse 4

मङ्गल उवाच । प्रसादं कुरु मे शम्भो प्रतिजन्मनि शङ्कर । त्वदङ्गस्वेदसम्भूतो ग्रहमध्ये वसाम्यहम्

曼伽罗说道:“赐我恩典吧,商婆啊,商羯罗啊,愿我生生世世蒙你垂怜。我由你身之汗而生,居于诸行星之中。”

Verse 5

त्वत्प्रसादेन ईशान पूज्योऽहं सर्वदैवतैः । कृतार्थो ह्यद्य संजातस्तव दर्शनभाषणात्

“凭你的恩典,伊沙那啊,我为诸神所当受礼敬。今日我确已圆满,只因得见你并与您言说。”

Verse 6

स्थानेऽस्मिन् देवदेवेश मम नाम्ना महेश्वरः । एवं भवतु ते पुत्रेत्युक्त्वा चान्तरधीयत

“就在此处,诸神之主啊,愿有以我之名而称的摩诃湿伐罗。”说罢“如是吧,我儿”,他便隐没不见。

Verse 7

मङ्गलोऽपि महात्मा वै स्थापयित्वा महेश्वरम् । आत्मयोगबलेनैव शूलिनापूजयत्ततः

玛ṅ伽罗亦是那位大心者,先在彼处安立大自在天(Maheśvara),继而以自身瑜伽修持之力礼敬持三叉戟的主宰。

Verse 8

सर्वदुःखहरं लिङ्गं नाम्ना वै मङ्गलेश्वरम् । तत्र तीर्थे तु वै राजन्ब्राह्मणान्प्रीणयेत्सुधीः

此能除一切忧苦之林伽,名为“玛ṅ伽勒湿伐罗”(Māṅgaleśvara)。在此圣地(tīrtha),大王啊,智者当敬奉并使婆罗门欢喜。

Verse 9

सपत्नीकान्नृपश्रेष्ठ चतुर्थ्यङ्गारके व्रते । पत्नीभर्तारसंयुक्तं विद्वांसं श्रोत्रियं द्विजम्

王中最胜者啊,于第四月日的安伽罗迦(Aṅgāraka)誓戒之时,(当供养)与妻同来的婆罗门——博学之士、受吠陀传授的闻持者(śrotriya)二生者。

Verse 10

व्रतान्ते चैव गौर्धुर्यैः शिवमुद्दिश्य दीयते । प्रीयतां मे महादेवः सपत्नीको वृषध्वजः

誓戒圆满之时,当以佳牛布施,并以此供施奉献于湿婆。 “愿大天(Mahādeva)——以公牛为旗者——与其圣妃同在,垂悦于我。”

Verse 11

वस्त्रयुग्मं प्रदातव्यं लोहितं पाण्डुनन्दन । धूर्वहौ रक्तवर्णौ च शुभ्रं कृष्णं तथैव च

般度之子啊,当施与一双衣服,以红色为宜;同样也可施红润之色,并且亦可施白衣与黑衣。

Verse 12

छत्रं शय्यां शुभां चैव रक्तमाल्यानुलेपनम् । दातव्यं पाण्डवश्रेष्ठ विशुद्धेनान्तरात्मना

应当布施华盖、吉祥的卧榻,并施以红色花鬘与涂香;噢,般度之最胜者,当以内心清净而行之。

Verse 13

चतुर्थ्यां तु तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः । श्राद्धं तत्रैव कर्तव्यं वित्तशाठ्येन वर्जितः

于第四与第八日(tithi),在白分与黑分两半月中,皆应于彼处行施祖祭(śrāddha),不以财物欺诳。

Verse 14

प्रेता भवन्ति सुप्रीता युगमेकं महीपते । सपुत्रो जायते मर्त्यः प्रतिजन्म नृपोत्तम

大王啊,亡灵将于整整一劫(yuga)中极为欢喜。又,诸王之最胜者,那凡人将生生世世得生,蒙赐有子。

Verse 15

तस्य तीर्थस्य भावेन सर्वाङ्गरुचिरो नृप । मङ्गलं भवते वंशो नाशुभं विद्यते क्वचित्

大王啊,由于彼圣地(tīrtha)的净化威德,众肢皆得光辉。家族血脉转为吉祥,处处不见不祥。

Verse 16

भक्त्या यः कीर्तयेन्नित्यं तस्य पापं व्यपोहति

凡以虔敬恒常称颂者,其罪业即被驱散消除。

Verse 69

। अध्याय

本章终了(adhyāya)。