Adhyaya 17
Avanti KhandaReva KhandaAdhyaya 17

Adhyaya 17

本章在仙人与国王的对话中,呈现极其强烈的宇宙溶解(毁灭)意象。马尔坎德耶叙述:至上的宇宙主宰收摄(saṃjahāra)已显现的世界,诸天与诸圣同声赞颂其威德。 叙事聚焦于大自在天(Mahādeva)可怖的南方面:双目如火,巨牙森然,遍布蛇相之征,伸出吞噬之舌。万有被观想为投入其口而趋于溶解,犹如众河归海。 自其口中喷涌凶猛烈焰,继而显现十二重太阳(dvādaśa ādityas),灼烧大地、群山、海洋与地下诸界,包括七重帕塔拉(Pātāla)及那伽界(Nāga-loka)。章末以护持作对照:纵然普世焚毁、巨岭崩解,仍明言那尔玛达河(Revā)不被毁灭,以此彰显以圣地(tīrtha)为中心的神圣地理。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । एवं संस्तूयमानस्तु ब्रह्माद्यैर्मुनिपुंगवैः । ब्रह्मलोकगतैस्तत्र संजहार जगत्प्रभुः

圣者马尔坎德耶说道:“当祂在彼处为梵天与已至梵界(Brahmaloka)的诸最胜牟尼所赞叹时,宇宙之主便收摄、撤回了那一显现。”

Verse 2

स तद्भीमं महारौद्रं दक्षिणं वक्त्रमव्ययम् । महादंष्ट्रोत्कटारावं पातालतलसंनिभम्

随后(彼主)显现其南方面容:可怖至极、忿怒炽盛而不坏;以巨牙发出骇然咆哮,宛如帕塔拉(Pātāla)之深渊。

Verse 3

विद्युज्ज्वलनपिङ्गाक्षं भैरवं लोमहर्षणम् । महाजिह्वं महादंष्ट्रं महासर्पशिरोधरम्

其黄褐之眼如电如火般炽燃——彼为怖畏者(Bhairava),令人毛骨悚然;具广大之舌、巨大的獠牙,并以大蛇为冠戴于其首。

Verse 4

महासुरशिरोमालं महाप्रलयकारणम् । ग्रसत्समुद्रनिहितवातवारिमयं हविः

其身饰以大阿修罗之首鬘,为大劫坏灭之因;又将藏于海中的风与水吞噬为供献之祭品。

Verse 5

वडवामुखसङ्काशं महादेवस्य तन्मुखम् । जिह्वाग्रेण जगत्सर्वं लेलिहानमपश्यत

他看见摩诃提婆(Mahādeva)的面容,宛如海底烈火,正用舌尖舔舐着整个宇宙。

Verse 6

योजनानां सहस्राणि सहस्राणां शतानि च । दिशो दश महाघोरा मांसमेदोवसोत्कटाः

在成千上万的由旬(yojana)范围内,十方显得极其恐怖,充满了血肉、脂肪和油脂。

Verse 7

तस्य दंष्ट्रा व्यवर्धत शतशोऽथ सहस्रशः । सासुरान्सुरगन्धर्वान् सयक्षोरगराक्षसान्

随后,他的獠牙成百上千地增长,威慑并压倒了阿修罗、天神、乾闼婆、夜叉和罗刹。

Verse 8

तस्य दंष्ट्राग्रसंलग्नान्स ददर्श पितामहः । दन्तयन्त्रान्तसंविष्टं विचूर्णितशिरोधरम्

祖父梵天(Pitāmaha)看见他们挂在獠牙尖上,被牙齿的咬合碾碎,颈项和头颅粉身碎骨。

Verse 9

जगत्पश्यामि राजेन्द्र विशन्तं व्यादिते मुखे । नानातरङ्गभङ्गाङ्गा महाफेनौघसंकुलाः । यथा नद्यो लयं यान्ति समुद्रं प्राप्य सस्वनाः

众王之首啊,我看见整个世界正涌入那张血盆大口,就像咆哮的河流汇入大海,消失无踪。

Verse 10

तथा ततं विश्वमिदं समस्तमनेकजीवार्णवदुर्विगाह्यम् । विवेश रुद्रस्य मुखं विशालं ज्वलत्तदुग्रं घननादघोरम्

同样,这遍满一切的整个宇宙——如同充满无量生命的大海般难以测度——进入了鲁陀罗那广阔的口中;其口炽燃、凶猛,并以雷鸣般的巨响而可怖。

Verse 11

ज्वालास्ततस्तस्य मुखात्सुघोराः सविस्फुलिङ्गा बहुलाः सधूमाः । अनेकरूपा ज्वलनप्रकाशाः प्रदीपयन्तीव दिशोऽखिलाश्च

随即,从他的口中迸发出极其可怖的火焰——数量繁多,烟雾缭绕,火星四溅——形态万千,光辉炽烈,仿佛照亮了十方一切方向。

Verse 12

ततो रविज्वालसहस्रमालि बभूव वक्त्रं चलजिह्वदंष्ट्रम् । महेश्वरस्याद्भुतरूपिणस्तदा स द्वादशात्मा प्रबभूव एकः

随后,那具奇妙形相的大自在天(摩诃伊湿伐罗)的面容,缀以千道如日之焰,舌焰摇动,獠牙森然;当时,那唯一者显现为十二重本体。

Verse 13

ततस्ते द्वादशादित्या रुद्रवक्त्राद्विनिर्गताः । आश्रित्य दक्षिणामाशां निर्दहन्तो वसुंधराम्

于是,那十二位阿底提耶自鲁陀罗之口涌出;依止南方之域,开始焚灼大地。

Verse 14

भौमं यज्जीवनं किंचिन्नानावृक्षतृणालयम् । शुष्कं पूर्वमनावृष्ट्या सकलाकुलभूतलम्

凡属地上的生命——诸般树木与草类的栖处——早已因先前久旱无雨而枯槁,使得整个大地表面陷入纷乱与苦迫。

Verse 15

तद्दीप्यमानं सहसा सूर्यैस्तै रुद्रसम्भवैः । धूमाकुलमभूत्सर्वं प्रणष्टग्रहतारकम्

当那些由鲁陀罗所生的太阳骤然炽然放光时,万物尽为浓烟所蔽,诸行星与群星皆从眼前隐没。

Verse 16

जज्वाल सहसा दीप्तं भूमण्डलमशेषतः । ज्वालामालाकुलं सर्वमभूदेतच्चराचरम्

刹那之间,大地之轮无处不燃;一切动与不动的世界,尽被火焰之鬘所吞没。

Verse 17

। अध्याय

章——作为“adhyāya(章节)”的标题标记。

Verse 18

विशालतेजसा दीप्ता महाज्वालासमाकुलाः । ददहुर्वै जगत्सर्वमादित्या रुद्रसम्भवाः

以无量光辉炽燃,周遭巨焰翻腾,鲁陀罗所生的阿底提耶众,确实焚尽了整个宇宙。

Verse 19

आदित्यानां रश्मयश्च संस्पृष्टा वै परस्परम् । एवं ददाह भगवांस्त्रैलोक्यं सचराचरम्

阿底提耶众的光线彼此相触而交融;于是那位圣尊焚烧三界,连同一切动与不动之众生。

Verse 20

सप्तद्वीपप्रमाणस्तु सोऽग्निर्भूत्वा महेश्वरः । सप्तद्वीपसमुद्रान्तां निर्ददाह वसुंधराम्

化为烈火的摩诃湿伐罗扩展至七洲之量,焚烧那为七洲之海所环绕的大地。

Verse 21

सुमेरुमन्दरान्तां च निर्दहुर्वसुधां तदा । भित्त्वा तु सप्तपातालं नागलोकं ततोऽदहत्

随后他焚烧大地直至须弥与曼陀罗;又穿破七重地下界(pātāla),继而焚尽那伽之域。

Verse 22

भूम्यधः सप्तपातालान्निर्दहंस्तारकैः सह । चचाराग्निः समन्तात्तु निर्दहन्वै युधिष्ठिर

在大地之下,烈火与群星同焚七重地下界,四方周遍而行——诚然,哦,尤提施提罗——吞噬一切。

Verse 23

धम्यमान इवाङ्गारैर्लोहरात्रिरिव ज्वलन् । तथा तत्प्राज्वलत्सर्वं संवर्ताग्निप्रदीपितम्

仿佛被炭火鼓风而更炽,燃烧如铁黑之夜;于是万物尽皆爆燃,皆由劫尽之火所点燃。

Verse 24

निर्वृक्षा निस्तृणा भूमिर्निर्निर्झरसरः सरित् । विशीर्णशैलशृङ्गौघा कूर्मपृष्ठोपमाभवत्

大地无树无草,泉流、湖泊与江河尽皆消失;唯余破碎的群峰堆叠,使其宛如龟背一般。

Verse 25

ज्वालामालाकुलं कृत्वा जगत्सर्वं चिदामकम् । महारूपधरो रुद्रो व्यतिष्ठत महेश्वरः

他以火焰花鬘充满整个宇宙,使一切世界化为炽燃的灰烬;鲁陀罗具广大可畏之形,作为大自在天(Maheśvara)巍然显现。

Verse 26

समातृगणभूयिष्ठा सयक्षोरगराक्षसा । ततो देवी महादेवं विवेश हरिलोचना

随后,女神——主要为诸母众所环绕,并与夜叉、龙蛇之类与罗刹同在——进入大天(Mahādeva)之中;她目如莲华。

Verse 27

निर्वाणं परमापन्ना शान्तेव शिखिनः शिखा । जगत्सर्वं हि निर्दग्धं त्रिभिर्लोकैः सहानघ

得至至上寂静——如火焰既灭之余烬——当整个宇宙连同三界尽被焚尽之时,噫,无垢者。

Verse 28

रुद्रप्रसादान्मुक्त्वा मां नर्मदां चाप्ययोनिजाम् । युगानामयुतं देवो मया चाद्य बुभक्षणात्

承鲁陀罗之恩,他饶恕了我,也饶恕了无胎而生的那尔摩达;毁灭之神在一万劫中不曾吞噬(我们),直至今日亦不吞噬她。

Verse 29

पुरा ह्याराधितः शूली तेनाहमजरामरः । अघमर्षणघोरं च वामदेवं च त्र्यम्बकम्

往昔,持三叉戟之主曾受供奉;由彼供奉,我得不朽不死——依于(诸相/真言)阿伽摩尔沙那、怖畏相(Ghora)、瓦摩提婆与三目者(Tryambaka)。

Verse 30

ऋषभं त्रिसुपर्णं च दुर्गां सावित्रमेव च । बृहदारण्यकं चैव बृहत्साम तथोत्तरम्

(他诵念)《Ṛṣabha》赞、《Trisuparṇa》赞、《Durgā》赞与《Sāvitra》(即伽耶特丽);又诵《Bṛhadāraṇyaka》(奥义书)、《Bṛhatsāman》,并同样诵《Uttara》之补充圣歌。

Verse 31

रौद्रीं परमगायत्रीं शिवोपनिषदं तथा । यथा प्रतिरथं सूक्तं जप्त्वा मृत्युंजयं तथा

他又反复诵持《Raudrī》赞、至上的伽耶特丽与《Śiva奥义书》;亦诵《Pratiratha颂》(sūkta);并同样持诵《Mṛtyuñjaya》胜死真言。

Verse 32

सरित्सागरपर्यन्ता वसुधा भस्मसात्कृता । वर्जयित्वा महाभागां नर्मदाममृतोपमाम्

大地连同诸河与大海尽成灰烬;唯有最为有福的那尔摩陀河,甘如不死甘露,未被焚灭。

Verse 33

महेन्द्रो मलयः सह्यो हेमकूटोऽथ माल्यवान् । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः

Mahendra、Malaya、Sahya、Hemakūṭa、Mālyavān、Vindhya与Pāriyātra——此七者即著名的“族山”(kulaparvata)。

Verse 34

द्वादशादित्यनिर्दग्धाः शैलाः शीर्णशिलाः पृथक् । भस्मीभूतास्तु दृश्यन्ते न नष्टा नर्मदा तदा

群山被十二轮太阳灼烧,岩石崩碎,各自分离;只见尽成灰烬——然而那时,Narmadā并未毁灭。

Verse 35

हिमवान्हेमकूटश्च निषधो गन्धमादनः । माल्यवांश्च गिरिश्रेष्ठो नीलः श्वेतोऽथ शृङ्गवान्

喜马梵与金峰(Hemakūṭa);尼沙陀与甘达摩达那(Gandhamādana);摩利耶梵(Mālyavān),群山之最;又有尼罗(Nīla)、室吠多(Śveta)与施陵伽梵(Śṛṅgavān)——

Verse 36

एते पर्वतरा जानो देवगन्धर्वसेविताः । युगान्ताग्निविनिर्दग्धाः सर्वे शीर्णमहाशिलाः

这些山中王者,受诸天与乾闼婆侍奉,皆被劫末之火灼烧;巍巍巨岩尽皆崩碎。

Verse 37

एवं मया पुरा दृष्टो युगान्ते सर्वसंक्षयः । वर्जयित्वा महापुण्यां नर्मदां नृपसत्तम

昔日我曾见劫终万有尽灭;然而,噢,诸王之最,唯有至福至德的那尔摩达河(Narmadā)不受侵害。