अ॒पाᳪ रस॒मुद्व॑यस॒ᳪ सूर्ये॒ सन्त॑ᳪ स॒माहि॑तम् । अ॒पाᳪ रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒ममु॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्
apā́ṃ rásam úd vayasáṃ sū́rye sántam samā́hitam | apā́ṃ rásasya yó rásaḥ táṃ vo gr̥hṇāmy uttamáṃ upayā́magṛhīto ’sī́ndrāya tvā júṣṭaṃ gr̥hṇāmy eṣá te yónir índrāya tvā júṣṭatamam
诸水之精髓,被汲引而出,住于太阳之中,凝聚而成。于诸水之精髓中,凡其精髓者——那至上者,我为你们取之。以乌帕亚摩(Upayāma)所摄取者;我取汝,奉因陀罗为所悦纳。此乃汝之胎座(yoni),奉因陀罗,为最所悦纳。
अपाम् । रसम् । उद्वयसम् । सूर्ये । सन्तम् । समा-हितम् । अपाम् । रसस्य । यः । रसः । तम् । वः । गृह्णामि । उत्तमम् । उपयाम-गृहीतः । असि । इन्द्राय । त्वा । जुष्टम् । गृह्णामि । एषः । ते । योनिः । इन्द्राय । त्वा । जुष्ट-तमम् ।