ध्रु॑व॒सदं॑ त्वा नृ॒षदं॑ मन॒:सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् । अ॑प्सु॒षदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् । पृथि॒वी॒सदं॑ त्वाऽन्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्
dhrúvasadaṃ tvā nr̥ṣádaṃ manaḥsádam upayā́magṛhīto ’sī́ndrāya tvā júṣṭaṃ gr̥hṇāmy eṣá te yónir índrāya tvā júṣṭatamam | apsuṣádaṃ tvā ghr̥tasádaṃ vyómasadam upayā́magṛhīto ’sī́ndrāya tvā júṣṭaṃ gr̥hṇāmy eṣá te yónir índrāya tvā júṣṭatamam | pr̥thivīṣádaṃ tvā ’ntárikṣasadaṃ diviṣádaṃ devásadaṃ nā́kasadam upayā́magṛhīto ’sī́ndrāya tvā júṣṭaṃ gr̥hṇāmy eṣá te yónir índrāya tvā júṣṭatamam
汝,安住于坚固之座——以人众为座、以心意为座——以“乌帕亚摩”(Upayāma)所摄取者;我取汝,奉因陀罗(Indra)为所悦纳。此乃汝之胎座(yoni),奉因陀罗,为最所悦纳。 汝,安住于诸水——安住于酥油、安住于穹空——以乌帕亚摩所摄取者;我取汝,奉因陀罗为所悦纳。此乃汝之胎座,奉因陀罗,为最所悦纳。 汝,安住于大地——安住于中空、安住于天界、安住于神众、安住于天顶——以乌帕亚摩所摄取者;我取汝,奉因陀罗为所悦纳。此乃汝之胎座,奉因陀罗,为最所悦纳。
ध्रुव-सदम् । त्वा । नृ-सदम् । मनः-सदम् । उपयाम-गृहीतः । असि । इन्द्राय । त्वा । जुष्टम् । गृह्णामि । एषः । ते । योनिः । इन्द्राय । त्वा । जुष्ट-तमम् । । अप्सु-सदम् । त्वा । घृत-सदम् । व्योम-सदम् । उपयाम-गृहीतः । असि । इन्द्राय । त्वा । जुष्टम् । गृह्णामि । एषः । ते । योनिः । इन्द्राय । त्वा । जुष्ट-तमम् । । पृथिवी-सदम् । त्वा । अन्तरिक्ष-सदम् । दिवि-सदम् । देव-सदम् । नाक-सदम् । उपयाम-गृहीतः । असि । इन्द्राय । त्वा । जुष्टम् । गृह्णामि । एषः । ते । योनिः । इन्द्राय । त्वा । जुष्ट-तमम् ।