ग्रहा॑ ऊर्जाहुतयो॒ व्यन्तो॒ विप्रा॑य म॒तिम् । तेषां॒ विशि॑प्रियाणां वो॒ऽहमिष॒मूर्ज॒ᳪ सम॑ग्रभमुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् । स॒म्पृचौ॑ स्थ॒: सं मा॑ भ॒द्रेण॑ पृङ्क्तं वि॒पृचौ॑ स्थो॒ वि मा॑ पा॒प्मना॑ पृङ्क्तम्
grahā́ ūrjā́hutayo vyánto víprāya matím | téṣāṃ víśipriyāṇāṃ vo ’hám íṣam ūrjáṃ sám agrabham upayā́magṛhīto ’sī́ndrāya tvā júṣṭaṃ gr̥hṇāmy eṣá te yónir índrāya tvā júṣṭatamam | sampṛ́cau sthaḥ sáṃ mā bhadréṇa pr̥ṅktaṃ vipṛ́cau stho ví mā pā́pmnā pr̥ṅktam
诸“摄取杯”(graha),乃滋养之供献,遍行流布,为祭司(vipra)带来灵感之思。于诸族群所爱者之中,我为你一并摄取食养(iṣa)与精力(ūrj)。以“Upayāma”之取受而取汝:为因陀罗而取,蒙悦纳;此乃汝之胎座(yoni),为因陀罗,最为悦纳。汝二者为调和者:以吉祥调和我;汝二者为分离者:以罪垢(pāpmán)远离我。
ग्राहाः । ऊर्ज-आहुतयः । व्यन्तः । विप्राय । मतिम् । तेषाम् । विशि-प्रियाणाम् । वः । अहम् । इषम् । ऊर्जम् । सम् । अग्रभम् । उपयाम-गृहीतः । असि । इन्द्राय । त्वा । जुष्टम् । गृह्णामि । एषः । ते । योनिः । इन्द्राय । त्वा । जुष्ट-तमम् । । सम्पृचौ । स्थः । सम् । मा । भद्रेण । पृङ्क्तम् । विपृचौ । स्थः । वि । मा । पाप्मना । पृङ्क्तम् ।