बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत॒ बृह॒स्पतिं॒ वाजं॑ जापयत । इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापयत
bṛ́haspate vā́jaṃ jaya bṛ́haspátaye vā́caṃ vadata bṛ́haspátiṃ vā́jaṃ jāpayata | índra vā́jaṃ jayéndrāya vā́caṃ vadaténdraṃ vā́jaṃ jāpayata |
噢,布里哈斯帕提(Bṛhaspati),请赢得胜利之奖;你们当向布里哈斯帕提宣说言辞;使布里哈斯帕提为得奖而被祈请、被称念。噢,因陀罗(Indra),请赢得胜利之奖;你们当向因陀罗宣说言辞;使因陀罗为得奖而被祈请、被称念。
बृह॑स्पते । वाज॑म् । ज॒य॒ । बृह॒स्पत॑ये । वाच॑म् । व॒द॒त॒ । बृह॒स्पति॑म् । वाज॑म् । जा॒प॒य॒त॒ ।
इन्द्र॑ । वाज॑म् । ज॒य॒ । इन्द्रा॑य । वाच॑म् । व॒द॒त॒ । इन्द्र॑म् । वाज॑म् । जा॒प॒य॒त॒ ।