दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यस॑वसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑ᳪ रुहेयम् । दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यस॑वस॒ इन्द्र॑स्योत्त॒मं नाक॑ᳪ रुहेयम् । दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑मरुहम् । दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यप्र॑सवस॒ इन्द्र॑स्योत्त॒मं नाक॑मरुहम्
devásyā́haṃ savitúḥ savé satyásavaso bṛ́haspáter uttamáṃ nā́kaṃ ruheyam | devásyā́haṃ savitúḥ savé satyásavaso índrasyottamáṃ nā́kaṃ ruheyam | devásyā́haṃ savitúḥ savé satyáprasavaso bṛ́haspáter uttamáṃ nā́kam aruham | devásyā́haṃ savitúḥ savé satyáprasavaso índrasyottamáṃ nā́kam aruham |
在神萨维特ṛ(Savitṛ)之推动下——其推动真实无妄——愿我登上布里哈斯帕提(Bṛhaspati)之最高天界。在神萨维特ṛ之推动下——其推动真实无妄——愿我登上因陀罗(Indra)之最高天界。在神萨维特ṛ之推动下——其发遣真实无妄——我已登上布里哈斯帕提之最高天界。在神萨维特ṛ之推动下——其发遣真实无妄——我已登上因陀罗之最高天界。
दे॒वस्य॑ । अ॒हम् । स॒वि॒तुः । स॒वे । स॒त्य-स॑वसः । बृह॒स्पतेः । उ॒त्त॒मम् । नाक॑म् । रु॒हे॒य॒म् ।
दे॒वस्य॑ । अ॒हम् । स॒वि॒तुः । स॒वे । स॒त्य-स॑वसः । इन्द्र॑स्य । उ॒त्त॒मम् । नाक॑म् । रु॒हे॒य॒म् ।
दे॒वस्य॑ । अ॒हम् । स॒वि॒तुः । स॒वे । स॒त्य-प्र॑सवसः । बृह॒स्पतेः । उ॒त्त॒मम् । नाक॑म् । अ॒रु॒ह॒म् ।
दे॒वस्य॑ । अ॒हम् । स॒वि॒तुः । स॒वे । स॒त्य-प्र॑सवसः । इन्द्र॑स्य । उ॒त्त॒मम् । नाक॑म् । अ॒रु॒ह॒म् ।