ए॒षा व॒: सा स॒त्या सं॒वाग॑भू॒द्यया॒ बृह॒स्पतिं॒ वाज॒मजी॑जप॒ताजी॑जपत॒ बृह॒स्पतिं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् । ए॒षा व॒: सा स॒त्या सं॒वाग॑भू॒द्ययेन्द्रं॒ वाज॒मजी॑जप॒ताजी॑जप॒तेन्द्रं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्वम्
eṣā́ vaḥ sā́ satyā́ saṃvā́g abhūd yayā́ bṛ́haspátiṃ vā́jam ajījapata ajījapata bṛ́haspátiṃ vā́jaṃ vanáspatayo vimucyadhvam | eṣā́ vaḥ sā́ satyā́ saṃvā́g abhūd yayéndraṃ vā́jam ajījapata ajījapata índraṃ vā́jaṃ vanáspatayo vimucyadhvam |
这对你们而言,确已成为真实而和合的一致之言;凭此你们使布里哈斯帕提为得奖而被称念——你们确使他被称念。噢,林木之主(vanaspati)啊,你们当自解其缚,得以释放!这对你们而言,确已成为真实而和合的一致之言;凭此你们使因陀罗为得奖而被称念——你们确使他被称念。噢,林木之主(vanaspati)啊,你们当自解其缚,得以释放!
ए॒षा । वः॒ । सा । स॒त्या । सं॒वाक् । अ॒भू॒त् । यया॑ । बृह॒स्पति॑म् । वाज॑म् । अजी॑जप॒त । अजी॑जप॒त । बृह॒स्पति॑म् । वाज॑म् । वन॑स्पतयः । वि॒मु॒च्य॒ध्व॒म् ।
ए॒षा । वः॒ । सा । स॒त्या । सं॒वाक् । अ॒भू॒त् । यया॑ । इन्द्र॑म् । वाज॑म् । अजी॑जप॒त । अजी॑जप॒त । इन्द्र॑म् । वाज॑म् । वन॑स्पतयः । वि॒मु॒च्य॒ध्व॒म् ।