इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वय॑: सुय॒ज्ञाः । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते
índra marutva ihá pā́hi sómaṃ yáthā śāryā́te ápibaḥ sutásya | táva práṇītī táva śūra śármann ā́ vivāsanti kaváyaḥ suyajñā́ḥ | upayā́ma-gṛhīto’sī́ndrāya tvā marútvata eṣá te yónir índrāya tvā marútvate
因陀罗啊,偕同摩卢特众神,请在此饮此苏摩;如同你在沙里亚塔处曾饮那压榨之汁。凭你的引导,凭你的庇护,勇士啊,诸智者、善祭者得以兴盛。以“乌帕亚玛”所摄受者,你是——献给偕摩卢特之因陀罗!此乃你的胎藏(yoni);献给偕摩卢特之因陀罗。
इन्द्र । मरुत्वः । इह । पाहि । सोमम् । यथा । शार्याते । अपिबः । सुतस्य । तव । प्रणीती । तव । शूर । शर्मन् । आ । विवासन्ति । कवयः । सु-यज्ञाः । उप-याम-गृहीतः । असि । इन्द्राय । त्वा । मरुत्वते । एषः । ते । योनिः । इन्द्राय । त्वा । मरुत्वते