विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मᳪ हव॑म् । एदं ब॒र्हिर्निषी॑दत । उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑:
víśve devāsa ā́ gata śṛṇutā́ ma imáṃ hávam | idáṃ barhír níṣīdata | upayā́ma-gṛhīto’si víśvebhyas tvā devébhya eṣá te yónir víśvebhyas tvā devébhyaḥ
一切诸神,请来此处;请听我此一呼请;请坐于此祭草(barhis)之上。汝以“优帕亚摩”(Upayāma)而被摄取:为一切诸神而取汝!此乃汝之胎座(yoni);为一切诸神而取汝!
विश्वे । देवासः । आ । गत । शृणुत । मे । इमम् । हवम् । इदम् । बर्हिः । नि-सीदत । उप-याम-गृहीतः । असि । विश्वेभ्यः । त्वा । देवेभ्यः । एषः । ते । योनिः । विश्वेभ्यः । त्वा । देवेभ्यः