उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॒ऽसि॒ स्वा॒ग्रयणः । पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं॒ विष्णु॒स्त्वामि॑न्द्रि॒येण॑ पातु॒ विष्णुं॒ त्वं पा॑ह्य॒भि सव॑नानि पाहि
upayā́magṛhīto'sy agrayaṇó'si svāgrayaṇaḥ | pā́hi yajñáṃ pā́hi yajñápatim | víṣṇus tvām indriyéṇa pātu | víṣṇuṃ tváṃ pāhy abhí sávanāni pāhi
汝以“乌帕雅摩”(Upayāma)而被摄取;汝为阿格拉雅那(Agrayaṇa),为善阿格拉雅那。护持此祭;护持祭之主。愿毗湿奴(Viṣṇu)以威力守护汝;汝亦当守护毗湿奴;并当四面守护诸榨取(Savana)之祭次。
उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । अ॒ग्र॒य॒णः । अ॒सि॒ । सु॒-अ॒ग्र॒य॒णः । पा॒हि । य॒ज्ञम् । पा॒हि । य॒ज्ञ-प॑तिम् । विष्णु॑ः । त्वा॒ । इ॒न्द्रि॒येण॑ । पातु॑ । विष्णु॑म् । त्वम् । पा॒हि । अ॒भि । सव॑नानि । पा॒हि