तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमुच्च॑रत् । पश्ये॑म श॒रद॑ः श॒तं जीवे॑म श॒रद॑ः श॒तᳪ शृणु॑याम श॒रद॑ः श॒तं प्र ब्र॑वाम श॒रद॑ः श॒तमदी॑नाः स्याम श॒रद॑ः श॒तं भूय॑श्च श॒रद॑ः श॒तात्
tác cákṣur deváhitaṃ purástāc chukrám úccarat | páśyema śarádaḥ śatáṃ jīvéma śarádaḥ śatáṃ śṛṇúyāma śarádaḥ śatáṃ prá bravāma śarádaḥ śatám adīnā́ḥ syāma śarádaḥ śatáṃ bhū́yaś ca śarádaḥ śatā́t
那由天所安立之眼——光明者——自东方升起。愿我等得见百个秋季;愿我等生存百个秋季;愿我等聆听百个秋季;愿我等宣说百个秋季;愿我等百个秋季不衰不败——且更逾百个秋季。
तत् । चक्षुः । देव-हितम् । पुरस्तात् । शुक्रम् । उत्-चरत् । पश्येम । शरदः । शतम् । जीवेम । शरदः । शतम् । शृणुयाम । शरदः । शतम् । प्र । ब्रवाम । शरदः । शतम् । अ-दीनाः । स्याम । शरदः । शतम् । भूयः । च । शरदः । शतात्