उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान । अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इडा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट
uttānāyām ava bharā cikitvānt tat sadyaḥ pravītā vṛ́ṣaṇaṃ jajāna | aruṣás tū́po ruśád asya pā́ja iḍā́yās putró vayúne ’janiṣṭa
在那仰卧伸展之地,将他安置下来——那位明智者;他即刻被驱策,便生出雄健的火。赤红的是火焰,光耀的是他的威力;凭借神圣的法度,伊荼(Iḍā)之子得以诞生。
उत्तानायाम् । अव । भरा । चिकित्वान् । तत् । सद्यः । प्रवीता । वृषणम् । जजान । अरुषः । तूपः । रुशत् । अस्य । पाजः । इडायाः । पुत्रः । वयुने । अजनिष्ट