अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वᳪ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घश॑ᳪस ईशत ॥
ádabdhebhir savitaḥ pāyúbhis tváṃ śivébhir adyá pári pāhi no gáyam | híraṇyajihvaḥ suvitā́ya návyase rákṣā mā́kīr no aghaśáṃsa īśata ||
萨维特尔啊,以你不失的、吉祥的守护者,今日环绕护持我们的资财。金舌者啊,为安泰、为常新之福泽——护佑我们;愿任何恶言者都不得辖制我们。
अदब्धेभिः । सवितः । पायुभिः । त्वम् । शिवेभिः । अद्य । परि । पाहि । नः । गयम् । हिरण्य-जिह्वः । सुविताय । नव्यसे । रक्ष । मा । किः । नः । अघ-शंसः । ईशत ।