होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्रं॑ दे॒वं भि॒षज॑ᳪ सु॒यजं॑ घृत॒श्रिय॑म् । पु॒रु॒रूप॑ᳪ सु॒रेत॑सं म॒घोन॒मिन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat tváṣṭāram índraṃ deváṃ bhiṣájaṃ su·yájaṃ ghṛta·śríyam | puru·rū́paṃ su·rétasaṃ maghónam índrāya tváṣṭā dádhad indriyā́ṇi vétu ā́jyasya hótar yája
愿热祭司(Hotṛ)奉献于特瓦什特里(Tvaṣṭṛ)——即因陀罗:天神、医者、善受崇敬者,其光辉为酥油之荣;形相多端,善种而丰施者。愿特瓦什特里为因陀罗授与诸威力,纳受此酥油——噢,热祭司,行祭!
होता । यक्षत् । त्वष्टारम् । इन्द्रम् । देवम् । भिषजम् । सु-यजम् । घृत-श्रियम् । पुरु-रूपम् । सु-रेतसम् । मघोनम् । इन्द्राय । त्वष्टा । दधत् । इन्द्रियाणि । वेतु । आज्यस्य । होतः । यज ।