होता॑ यक्षत्सुब॒र्हिषं॑ पूष॒ण्वन्त॒मम॑र्त्य॒ᳪ सीद॑न्तं ब॒र्हिषि॑ प्रि॒येऽमृतेन्द्रं॑ वयो॒धस॑म् । बृ॒ह॒तीं छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सं गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat subárhiṣaṃ pūṣaṇvántam amártyaṃ sī́dantaṃ bárhiṣi priyé ’mṛté índraṃ vayodhásam | bṛhatī́ṃ chánda indriyáṃ trivátsaṃ gā́ṃ váyo dádhad vétv ā́jyasya hótar yája
愿祭司(Hotṛ)奉祭因陀罗(Indra),赐予生命之力者——草席铺设善美者(su-barhiṣ),与普尚(Pūṣan)相随者,不死者;坐于祭草之上,于不死之座为所爱者。布里哈蒂(Bṛhatī)为其韵律;此处显现因陀罗之威能:施与三重产犊之牛群与精力,愿他趋近酥油;噢,祭司,行祭!
होता । यक्षत् । सुबर्हिषम् । पूषण्वन्तम् । अमर्त्यम् । सीदन्तम् । बर्हिषि । प्रिये । अमृते । इन्द्रम् । वयोधसम् । बृहतीम् । छन्दः । इन्द्रियम् । त्रिवत्सम् । गाम् । वयः । दधत् । वेतु । आज्यस्य । होतः । यज