अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राडग्ने॑ क्षत्र॒भृद्दी॑दिही॒ह । विश्वा॒ आशा॑: प्रमु॒ञ्चन्मानु॑षीर्भि॒यः शि॒वेभि॑र॒द्य परि॑ पाहि नो वृ॒धे
anādhṛṣyó jāta̱védā ániṣṭṛto virā́ḍ agne kṣatra̱bhṛd dīdihīhá | víśvā ā́śāḥ pramuñcán mā́nuṣīr bhíyaḥ śivébhir adyá pári pāhi no vṛdhé ||
不可攻破者,噢生知者(Jātavedas),不受伤害者,广御之阿耆尼(Agni),执王权之力者——愿你在此炽然燃耀。于四方解除人间诸惧,以吉祥之力,今日环护我们,使我们增长兴盛。
अ॒ना॒धृ॒ष्यः । जा॒तऽवे॑दाः । अ॒नि॒ष्टृ॒तः । वि॒राट् । अ॒ग्ने॒ । क्ष॒त्र॒ऽभृत् । दी॒दि॒ही॒ह॒ । विश्वाः॑ । आशाः॑ । प्र॒ऽमु॒ञ्चन् । मानु॑षीः । भि॒यः । शि॒वेभिः॑ । अ॒द्य । परि॑ । पा॒हि॒ । नः॒ । वृ॒धे ।