म॒रुता॑ᳪ स्कन्धा॒ विश्वे॑षां दे॒वानां॑ प्रथ॒मा कीक॑सा रु॒द्राणां॑ द्वि॒तीया॑ऽऽदि॒त्यानां॑ तृ॒तीया॑ वा॒योः पुच्छ॑म॒ग्नीषोम॑यो॒र्भास॑दौ॒ क्रुञ्चौ॒ श्रोणि॑भ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्यां॑ मि॒त्रावरु॑णाव॒ल्गाभ्या॑मा॒क्रम॑णᳪ स्थू॒राभ्यां॒ बलं॒ कुष्ठा॑भ्याम्
marútāṃ skándhā víśveṣāṃ devā́nāṃ prathamā́ kī́kasā rudrā́ṇāṃ dvitī́yā ādityā́nāṃ tṛtī́yā vāyóḥ púccham agnīṣómayoḥ bhā́sadāu kruñcáu śróṇibhyām indrā́-bṛ́haspatī ūrúbhyāṃ mitrā́-varuṇāv algā́bhyām ā́kramaṇaṃ sthūrā́bhyām bálaṃ kúṣṭhābhyām
玛鲁特(Marut)为双肩;在一切诸神之中,为第一节脊椎之架;在鲁陀罗众(Rudra)中为第二;在阿底提耶众(Āditya)中为第三;伐由(Vāyu)为尾;阿耆尼与苏摩(Agni–Soma)为两位光辉者,如双鹤;以髋为因陀罗与婆罗诃斯波提(Indra–Bṛhaspati);以股为密多罗与伐楼那(Mitra–Varuṇa);以两处粗厚者为行进;以两处坚实者为力量;以两处名为“库什塔”(Kuṣṭha)者——(如是安置)。
मरुताम् । स्कन्धाः । विश्वेषाम् । देवानाम् । प्रथमा । कीकसा । रुद्राणाम् । द्वितीया । आदित्यानाम् । तृतीया । वायोः । पुच्छम् । अग्नीषोमयोः । भासदौ । क्रुञ्चौ । श्रोणिभ्याम् । इन्द्रा-बृहस्पती । ऊरुभ्याम् । मित्रा-वरुणौ । अल्गाभ्याम् । आ-क्रमणम् । स्थूराभ्याम् । बलम् । कुष्ठाभ्याम्