ए॒ष छाग॑: पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॒भि॒प्रियं॒ यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टेदे॑नᳪ सौश्रव॒साय॑ जिन्वति
eṣá chā́gaḥ puró áśvena vājínā pūṣṇó bhā́go nī́yate viśvádevyaḥ | abhipriyáṃ yát puroḍā́śam árvatā tváṣṭédenaṃ sauśravásāya jinvati
此雄山羊——补沙那(Pūṣan)之分——与得胜之骏马同在前引,为一切诸神而行。若他与奔马一同激发那可亲的普罗陀阿沙(Puroḍāśa)祭饼,则由此,特瓦什特里(Tvaṣṭṛ)使他兴盛,得享美名。
ए॒षः । छागः॑ । पु॒रः । अश्वे॑न । वा॒जिना॑ । पू॒ष्णः । भा॒गः । नी॒य॒ते॒ । वि॒श्वदे॑व्यः । अ॒भि॒प्रियम् । यत् । पु॒रो॒डाश॑म् । अर्व॑ता । त्वष्टा॑ । इ॒देन॑म् । सौ॒श्र॒व॒साय॑ । जि॒न्व॒ति॒