होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भो घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪ सु॒मत्क्ष॑राणाᳪ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसानानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वमिन्द्रो॑ जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑
hótā yákṣad índram ṛṣabhásya havíṣa āváyad adyá madhyató médá udbhṛ́taṃ purā dvéṣobhyaḥ purā pauruṣeyyā gṛbhó ghásann ūnáṃ ghā́se ajrāṇāṃ yávasaprathamānāṃ sumátkṣarāṇāṃ śatarudríyāṇām agníṣvāttānāṃ pī́vopavasānānāṃ pārśvatáḥ śróṇitaḥ śitāmatá utsādató ’ṅgād aṅgād avattānāṃ karadévam índro juṣátāṃ havír hotar yája
愿祭司霍特里(Hotṛ)以供献祭品,向因陀罗(Indra)——雄牛者——行祭。今日他自其中取出并呈上那被汲取的脂膏:先于诸憎怨,先于凡属人间之害。攫取而吞食,如今啮食不倦者的草料——诸草之先、甘露般滴落者、由百鲁陀罗(Rudra)守护者;为阿耆尼所享(agnisvātta)者,肥润而安息者;自肋旁、自髋际,自关节至关节而被分置者——愿因陀罗使之成为神圣,欢喜受纳此供物。祭司啊,献祭吧。
होता । यक्षत् । इन्द्रम् । ऋषभस्य । हविषः । आवयत् । अद्य । मध्यतः । मेदः । उद्भृतम् । पुरा । द्वेषोभ्यः । पुरा । पौरुषेय्याः । गृभः । घसन् । नूनम् । घासे । अज्राणाम् । यवस-प्रथमाना॑म् । सुमत्-क्षराणाम् । शत-रुद्रियाणाम् । अग्नि-स्वात्तानाम् । पीवः-उपवसानानाम् । पार्श्वतः । श्रोणितः । शितामतः । उत्सादतः । अङ्गात्-अङ्गात् । अवत्तानाम् । करदेवम् । इन्द्रः । जुषताम् । हविः । होतः । यज