होता॑ यक्ष॒त् सर॑स्वतीं मे॒षस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भो घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪ सु॒मत्क्ष॑राणाᳪ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वᳪ सर॑स्वती जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑
hótā yakṣat sárasvatīṃ méṣasya havíṣa ā́vayat adyá mádhyato médá udbhṛ́taṃ púrā dvéṣobhyaḥ púrā pauruṣeyyā́ grábho ghásan nūnáṃ ghā́se ajrā́ṇāṃ yávasaprathamānāṃ sumátkṣarāṇāṃ śatarudríyāṇām agníṣvāttānāṃ pī́vopavasanānāṃ pārśvatáḥ śróṇitaḥ śitā́mata utsā́dato ’ṅgād aṅgā́d avattā́nāṃ kárad deváṃ sárasvatī juṣátāṃ havír hótar yaja
愿诵祭官(Hotṛ)向萨拉斯瓦蒂(Sarasvatī)奉献:愿她环护并悦纳公绵羊之供物——今日自其中部取出的脂膏——以为昔时防护诸怨憎,昔时防护人为之攫取;今当作为未受伤者之牧食,先于草场,滴流善润之汁,属百鲁陀罗(Śatarudriya)之(供分),为火所享(agniṣvātta),肥美而将尽;取自肋旁、髋部之锐利精髓,并自关节、从肢体至肢体所取者。愿萨拉斯瓦蒂女神如是悦纳此供;诵祭官啊,行祭(yaj)。
होता । यक्षत् । सरस्वतीम् । मेषस्य । हविषः । आवयत् । अद्य । मध्यतः । मेदः । उद्भृतम् । पुरा । द्वेषोभ्यः । पुरा । पौरुषेय्याः । ग्रभः । घसन् । नूनम् । घासे । अज्राणाम् । यवसप्रथमानाम् । सुमत्क्षराणाम् । शतरुद्रियाणाम् । अग्निष्वात्तानाम् । पीवोपवसनानाम् । पार्श्वतः । श्रोणितः । शितामतः । उत्सादतः । अङ्गात्-अङ्गात् । अवत्तानाम् । करत् । देवम् । सरस्वती । जुषताम् । हविः । होतः । यज ।