घृ॒ताच्य॑सि जु॒हूर्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द् । घृ॒ताच्य॑स्युप॒भृन्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द् । घृ॒ताच्य॑सि ध्रु॒वा नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द् । प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द् । ध्रु॒वा अ॑सदन्नृ॒तस्य॒ योनौ॒ । ता वि॑ष्णो पाहि पाहि य॒ज्ञं पाहि य॒ज्ञप॑तिं पाहि मां य॑ज्ञ॒न्य॒म् ॥
ghṛtā́cy asi juhū́r nā́mnā sédáṃ priyéṇa dhā́mnā priyáṃ sád āsīt | ghṛtā́cyasy upabhṛ́n nā́mnā sédáṃ priyéṇa dhā́mnā priyáṃ sád āsīt | ghṛtā́cy asi dhrúvā nā́mnā sédáṃ priyéṇa dhā́mnā priyáṃ sád āsīt | priyéṇa dhā́mnā priyáṃ sád āsīt | dhrúvā asadan ṛtásya yónau | tā́ viṣṇo pāhi pāhi yajñáṃ pāhi yajñápatim pāhi mā́ṃ yajanyám ||
你是“随酥而行者”(Ghṛtācī)。名为“举酥勺”(Juhū):请在此安坐,于这可爱之处所;你曾安住于可爱而真实之座。 你是“随酥而行者”。名为“副举酥勺”(Upabhṛt):请在此安坐,于这可爱之处所;你曾安住于可爱而真实之座。 你是“随酥而行者”。名为“安定勺”(Dhruvā):请在此安坐,于这可爱之处所;你曾安住于可爱而真实之座——于这可爱之处所,安住于可爱而真实之座。 愿“安定者”(Dhruvā)安坐于ṛta(正法、宇宙秩序)之胎藏。毗湿奴啊,护持它,护持!护持祭祀,护持祭主,护持我——这祭祀之人。
घृताची असि । जुहूः नाम्ना । सा इदम् प्रियेण धाम्ना । प्रियम् सत् आसीत् ।
घृताच्यस्य उपभृत् नाम्ना । सा इदम् प्रियेण धाम्ना । प्रियम् सत् आसीत् ।
घृताची असि । ध्रुवा नाम्ना । सा इदम् प्रियेण धाम्ना । प्रियम् सत् आसीत् ।
प्रियेण धाम्ना । प्रियम् सत् आसीत् ।
ध्रुवाः असदन् । ऋतस्य योनौ ।
ताः विष्णो पाहि । पाहि यज्ञम् । पाहि यज्ञपतिम् । पाहि माम् यज्ञन्यम् ।