स॒मिद॑सि । सूर्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्या॑श्चिद॒भिश॑स्त्यै । सवि॒तुर्बा॒हू स्थ॒ ऊर्ण॑म्म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्य॒ आ त्वा॒ वस॑वो रु॒द्रा आ॑दि॒त्याः स॑दन्तु ॥
sa̱míd asi | sū́ryas tvā purástāt pātu kásyāś cid abhíśastyai | savitúr bāhū́ stha ū́rṇam mṛdásaṃ tvā stṛṇāmi svāsásthaṃ devébhya ā́ tvā vásavo rudrā́ ādityā́ḥ sadantu ||
你是柴薪(Samid)。愿苏利耶(Sūrya,日神)自东方护持你,免受任何人的诅咒与加害。 你们是萨维特里(Savitṛ)之臂。以柔软之羊毛我为你铺陈,使你成为诸神安坐的善座、安息之处;愿瓦苏(Vasus)、鲁陀罗(Rudras)与阿底提耶(Ādityas)在你上安坐。
स॒मित् । अ॒सि॒ । सूर्यः । त्वा॒ । पु॒रस्ता॑त् । पा॒तु॒ । कस्या॑चित् । अ॒भिश॑स्त्यै । स॒वि॒तुः । बा॒हू । स्थः॒ । ऊर्ण॑म् । म्र॒द॒सम् । त्वा॒ । स्तृ॒णा॒मि॒ । स्वा॒स॒स्थम् । दे॒वेभ्यः॑ । आ । त्वा॒ । वस॑वः । रु॒द्राः । आ॒दि॒त्याः । स॒द॒न्तु॒ ।