रेतो॒ मूत्रं॒ वि ज॑हाति॒ योनिं॑ प्रवि॒शदि॑न्द्र॒यिम् । गर्भो॑ ज॒रायु॒णाऽऽवृ॑त॒ उल्बं॑ जहाति॒ जन्म॑ना । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
réto mūtráṃ ví jahāti yónim praviśád indrayím | gárbho jarāyúṇā’’vṛta úlbaṃ jahāti jánmanā | ṛténá satyám indriyáṃ vipānáṃ śukrám ándhasa índrasyendriyám idáṃ páyo’mṛtáṃ mádhu
精液舍离尿液;它进入子宫,具因陀罗之力(indriya)。胚胎为胎衣所裹,至出生时弃去其膜。依ṛta——依真实——得因陀罗之威力:那一饮,那植物明净的精华;此即因陀罗的威能——此乳,甘露不死,蜜般甘甜。
रेतः । मूत्रम् । वि । जहाति । योनिम् । प्र॒-वि॒शत् । इ॒न्द्र॒यिम् । गर्भः । जरायु॑णा । आ॒-आवृ॑तः । उल्बम् । जहाति । जन्म॑ना । ऋ॒तेन॑ । स॒त्यम् । इ॒न्द्रि॒यम् । वि॒पान॑म् । शु॒क्रम् । अन्ध॑सः । इन्द्र॑स्य । इ॒न्द्रि॒यम् । इ॒दम् । पयः॑ । अ॒मृत॑म् । मधु॑