अन्ना॑त्परि॒स्रुतो॒ रसं॒ ब्रह्म॑णा॒ व्य॑पिबत् क्ष॒त्रं पय॒: सोमं॑ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
ánnāt parisrutó rásaṃ bráhmaṇā vyàpibat kṣatráṃ páyaḥ sómam prajāpátiḥ | ṛténá satyám indriyáṃ vipānáṃ śukrám ándhasa índrasyendriyám idáṃ páyo’mṛtáṃ mádhu
从食物中,作为滤出的精髓之汁,普罗阇波提(Prajāpati)以梵力(Brahman)饮取其味——乃至刹帝利之力(kṣatra)、乳、苏摩(Soma)。依ṛta(宇宙正序)——依真实(satya)——得因陀罗(Indra)之威力:那一饮,那植物明净的精华;此即因陀罗的威能——此乳,甘露不死,蜜般甘甜。
अन्ना॑त् । परि॒स्रुतः । रसम् । ब्रह्म॑णा । वि॒-अपि॒ब॒त् । क्ष॒त्रम् । पयः॑ । सोम॑म् । प्र॒जाप॑तिः । ऋ॒तेन॑ । स॒त्यम् । इ॒न्द्रि॒यम् । वि॒पान॑म् । शु॒क्रम् । अन्ध॑सः । इन्द्र॑स्य । इ॒न्द्रि॒यम् । इ॒दम् । पयः॑ । अ॒मृत॑म् । मधु॑