ए॒ताव॑द्रू॒पं य॒ज्ञस्य॒ यद्दे॒वैर्ब्रह्म॑णा कृ॒तम् । तदे॒तत्सर्व॑माप्नोति य॒ज्ञे सौ॑त्राम॒णी सु॒ते
etā́vad rūpáṃ yajñásya yád deváir bráhmaṇā kṛtám | tád etát sárvam āpnoti yajñé sautrāmaṇī́ suté
此乃祭祀之形相——诸天以梵力(brahman)所成就者。于祭中,当苏特罗摩尼(Sautrāmaṇī)以压榨之苏摩(Soma)而行时,彼即获得这一切。
ए॒तावत् । रू॒पम् । य॒ज्ञस्य॑ । यत् । दे॒वैः । ब्रह्म॑णा । कृ॒तम् । तत् । ए॒तत् । सर्व॑म् । आप्नोति । य॒ज्ञे । सौ॑त्राम॒णी । सु॒ते