व्र॒तेन॑ दी॒क्षामा॑प्नोति दी॒क्षया॑ऽऽप्नोति॒ दक्षि॑णाम् । दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑ स॒त्यमा॑प्यते
vraténa dīkṣā́m āpnoti dīkṣáyā''pnoti dákṣiṇām | dákṣiṇā śraddhā́m āpnoti śraddháyā satyám āpyate
以誓戒(Vrata),得受戒(Dīkṣā);以受戒,得祭司之酬(Dakṣiṇā)。酬礼生信(Śraddhā);以信,真(Satya)得以成就。
व्र॒तेन॑ । दी॒क्षाम् । आप्नोति । दी॒क्षया॑ । आप्नोति । दक्षि॑णाम् । दक्षि॑णा । श्र॒द्धाम् । आप्नोति । श्र॒द्धया॑ । स॒त्यम् । आप्यते