अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यिᳪ र॑यिवः सु॒वीर॑म् । अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ॥
aśyā́ma táṃ kā́mam agne távotī́ aśyā́ma rayíṃ rayivaḥ suvī́ram | aśyā́ma vā́jam abhí vājáyanto’śyā́ma dyumnám ajárājaram te ||
阿耆尼啊,凭你的扶助,愿我们得遂那愿;富有者啊,愿我们得获财富,具足善勇之子。愿我们在求胜奋进中得获奖赏;愿我们从你得获不朽、永不衰败的光荣。
अश्यम । तम् । कामम् । अग्ने । तव । ऊती । अश्यम । रयिम् । रयिवः । सु-वीरम् । अश्यम । वाजम् । अभि । वाजयन्तः । अश्यम । द्युम्नम् । अजर-अजरम् । ते ।