येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ नय॒ स्व॒र्दे॒वेषु॒ गन्त॑वे
yéna váhasi sahásraṃ yénāgne sarvavedásam | ténenáṃ yajñáṃ no naya svàr devéṣu gántave ||
凭借那使你承载千倍之力者,凭借那使你承载一切财富者——噢,阿耆尼(Agni),以此引领我们此一祭祀至天界,使之得往诸天神之所。
येन॑ । वह॑सि । स॒हस्रम् । येन॑ । अ॒ग्ने॒ । स॒र्व॒वे॒द॒सम् । तेन॑ । इ॒मम् । य॒ज्ञम् । नः॑ । न॒य॒ । स्वः॑ । दे॒वेषु॑ । गन्त॑वे ।