चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोड॑श च मे॒ षोड॑श च मे विᳪश॒तिश्च॑ मे विᳪशतिश्च॑ मे॒ चतु॑र्विᳪशतिश्च मे॒ चतु॑र्विᳪश॒तिश्च॑ मे॒ऽष्टावि॑ᳪशतिश्च मे॒ऽष्टावि॑ᳪशतिश्च मे॒ द्वात्रि॑ᳪशच्च मे॒ द्वात्रि॑ᳪशच्च मे॒ षट्त्रि॑ᳪशच्च मे॒ षट्त्रि॑ᳪशच्च मे चत्वारि॒ᳪशच्च॑ मे चत्वारि॒ᳪशच्च॑ मे॒ चतु॑श्चत्वारिᳪशच्च मे॒ चतु॑श्चत्वारिᳪशच्च मे॒ऽष्टाच॑त्वारिᳪशच्च मे य॒ज्ञेन॑ कल्पन्ताम्
cátasraś ca me ’ṣṭáu ca me ’ṣṭáu ca me dvā́daśa ca me dvā́daśa ca me ṣóḍaśa ca me ṣóḍaśa ca me viṁśatíś ca me viṁśatíś ca me caturviṁśatíś ca me caturviṁśatíś ca me ’ṣṭāviṁśatíś ca me ’ṣṭāviṁśatíś ca me dvātriṁśác ca me dvātriṁśác ca me ṣaṭtriṁśác ca me ṣaṭtriṁśác ca me catvāriṁśác ca me catvāriṁśác ca me cátuścatvāriṁśác ca me cátuścatvāriṁśác ca me ’ṣṭācatvāriṁśác ca me yajñéna kalpantām
四;八与八;十二与十二;十六与十六;二十与二十;二十四与二十四;二十八与二十八;三十二与三十二;三十六与三十六;四十与四十;四十四与四十四;四十八与四十八——愿这一切由祭祀而得以成就。
चतस्रः च मे । अष्टौ च मे । अष्टौ च मे । द्वादश च मे । द्वादश च मे । षोडश च मे । षोडश च मे । विंशतिः च मे । विंशतिः च मे । चतुर्विंशतिः च मे । चतुर्विंशतिः च मे । अष्टाविंशतिः च मे । अष्टाविंशतिः च मे । द्वात्रिंशत् च मे । द्वात्रिंशत् च मे । षट्त्रिंशत् च मे । षट्त्रिंशत् च मे । चत्वारिंशत् च मे । चत्वारिंशत् च मे । चतुश्चत्वारिंशत् च मे । चतुश्चत्वारिंशत् च मे । अष्टाचत्वारिंशत् च मे । यज्ञेन कल्पन्ताम् ।