एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च म॒ एक॑विᳪशतिश्च म॒ एक॑विᳪशतिश्च मे॒ त्रयो॑विᳪशतिश्च मे॒ त्रयो॑विᳪशतिश्च मे॒ पञ्च॑विᳪशतिश्च मे॒ पञ्च॑विᳪशतिश्च मे स॒प्तवि॑ᳪशतिश्च मे स॒प्तवि॑ᳪशतिश्च मे॒ नव॑विᳪशतिश्च मे॒ नव॑विᳪशतिश्च म॒ एक॑त्रिᳪशच्च म॒ एक॑त्रिᳪशच्च मे॒ त्रय॑स्त्रिᳪशच्च मे य॒ज्ञेन॑ कल्पन्ताम्
ēkā́ ca me tisráś ca me tisráś ca me páñca ca me páñca ca me saptá ca me saptá ca me náva ca me náva ca me ekā́daśa ca me ekā́daśa ca me tráyodaśa ca me tráyodaśa ca me páñcadaśa ca me páñcadaśa ca me saptádaśa ca me saptádaśa ca me návadaśa ca me návadaśa ca me ekaviṁśatíś ca me ekaviṁśatíś ca me trayoviṁśatíś ca me trayoviṁśatíś ca me pañcaviṁśatíś ca me pañcaviṁśatíś ca me saptaviṁśatíś ca me saptaviṁśatíś ca me navaviṁśatíś ca me navaviṁśatíś ca me ekatriṁśác ca me ekatriṁśác ca me trayastriṁśác ca me yajñéna kalpantām
一与三,三与三;五与五;七与七;九与九;十一与十一;十三与十三;十五与十五;十七与十七;十九与十九;二十一与二十一;二十三与二十三;二十五与二十五;二十七与二十七;二十九与二十九;三十一与三十一;三十三与三十三——愿这一切由祭祀而得以成就。
एका च मे । तिस्रः च मे । तिस्रः च मे । पञ्च च मे । पञ्च च मे । सप्त च मे । सप्त च मे । नव च मे । नव च मे । एकादश च मे । एकादश च मे । त्रयोदश च मे । त्रयोदश च मे । पञ्चदश च मे । पञ्चदश च मे । सप्तदश च मे । सप्तदश च मे । नवदश च मे । नवदश च मे । एकविंशतिः च मे । एकविंशतिः च मे । त्रयोविंशतिः च मे । त्रयोविंशतिः च मे । पञ्चविंशतिः च मे । पञ्चविंशतिः च मे । सप्तविंशतिः च मे । सप्तविंशतिः च मे । नवविंशतिः च मे । नवविंशतिः च मे । एकत्रिंशत् च मे । एकत्रिंशत् च मे । त्रयस्त्रिंशत् च मे । यज्ञेन कल्पन्ताम् ।