वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व॒श्च मे य॒ज्ञेन॑ कल्पन्ताम्
vā́jaś ca me prasaváś ca me práyatiś ca me prásitiś ca me dhītíś ca me krátúś ca me sváraś ca me ślókaś ca me śrávaś ca me śrútīś ca me jyótiś ca me svàś ca me yajñéna kalpantām ||
愿我得具足之力(vāja),愿我得发动之势(prasava);愿我得正当之努力(prayati),愿我得有序之发遣(prasiti);愿我得灵感之思(dhīti)与坚固之决意(kratu);愿我得音调(svara)与圣颂(śloka);愿我得名闻(śravas)与圣听(śruti);愿我得光明(jyotis)与天界(sva)——愿这一切由祭祀(yajña)为我调和成就。
वाजः । च । मे । प्रसवः । च । मे । प्रयतिः । च । मे । प्रसितिः । च । मे । धीतिः । च । मे । क्रतुः । च । मे । स्वरः । च । मे । श्लोकः । च । मे । श्रवः । च । मे । श्रुतिः । च । मे । ज्योतिः । च । मे । स्वः । च । मे । यज्ञेन । कल्पन्ताम् ।