नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नम॑: सृका॒यिभ्यो॒ जिघा॑ᳪसद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नम॑:
námo váñcate pariváñcate stāyū́nāṃ pátaye námo námo niṣaṅgíṇa iṣudhímaté táskarāṇāṃ pátaye námo námaḥ sṛkā́yibhyo jíghāṃsadbhyo muṣṇatā́ṃ pátaye námo námo ’símadbhyo naktáñcaradbhyo vikṛntā́nāṃ pátaye námaḥ
敬礼!向那欺诈者与更深的欺诈者,盗匪之主,敬礼!敬礼、敬礼!向那佩剑者、具箭囊者,盗贼之主,敬礼!敬礼、敬礼!向那持短刃者、欲杀者,掠夺者之主,敬礼!敬礼、敬礼!向那持剑者、夜行者,肢解者之主,敬礼!
नमः । वञ्चते । परिवञ्चते । स्तायूनाम् । पतये । नमः । नमः । निषङ्गिणे । इषुधिमते । तस्कराणाम् । पतये । नमः । नमः । सृकायिभ्यः । जिघांसद्भ्यः । मुष्णताम् । पतये । नमः । नमः । असिमद्भ्यः । नक्तञ्चरद्भ्यः । विकृन्तानाम् । पतये । नमः ।