नम॑: कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नम॑:
námaḥ kṛtsnā́yatayā dhā́vate sátvanāṃ pátaye námo námaḥ sáhamānāya nivyādhíne āvyādhínīnām pátaye námo námo niṣaṅgíṇe kakúbhāya stenā́nāṃ pátaye námo námo nicérave paricárāyāraṇyā́nāṃ pátaye námaḥ
敬礼!向那以遍满之势疾驰者,众生之主,敬礼!敬礼、敬礼!向那强胜者、暗中穿刺者,伤害者之主,敬礼!敬礼、敬礼!向那佩剑者、崇高者,盗贼之主,敬礼!敬礼、敬礼!向那潜行的游荡者、徘徊于林野者,林中之徒之主,敬礼!
नमः । कृत्स्नायतया । धावते । सत्वनाम् । पतये । नमः । नमः । सहमानाय । निव्याधिने । आव्याधिनीनाम् । पतये । नमः । नमः । निषङ्गिणे । ककुभाय । स्तेनानाम् । पतये । नमः । नमः । निचेरवे । परिचराय । अरण्यानाम् । पतये । नमः ।