अदि॑त्यास्त्वा पृ॒ष्ठे सा॑दयाम्य॒न्तरि॑क्षस्य ध॒र्त्रीं वि॒ष्टम्भ॑नीं दि॒शामधि॑पत्नीं॒ भुव॑नानाम् |ऊ॒र्मिर्द्र॒प्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
adítyās tvā pṛṣṭhé sādáyāmy antárikṣasya dhártrīṃ viṣṭámbhanīṃ diśā́m adhipátnīṃ bhúvanānām | ū́rmir drápsa ápām asi víśvakarmā te ṛ́ṣiḥ | aśvínā ’dhvaryū sādáyatām ihá tvā́
我令汝坐于阿底提(Aditi)之背——汝为中界之持载者、支撑者、柱石;为诸方之主母,为诸世界之女王。汝为水之波、为水之滴;毗湿瓦羯摩(Viśvakarman)为汝之圣见者(ṛṣi)。阿湿毗那(Aśvinā)二神,作为祭官 Adhvaryu,将在此使汝就座。
अदित्याः । त्वा । पृष्ठे । सादयामि । अन्तरिक्षस्य । धर्त्रीम् । विष्टम्भनीम् । दिशाम् । अधि-पत्नीम् । भुवनानाम् । ऊर्मिः । द्रप्सः । अपाम् । असि । विश्वकर्मा । ते । ऋषिः । अश्विना । अध्वर्यू इति । सादयताम् । इह । त्वा ।