पृ॒थि॒व्याः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णाऽऽय॑जस्वा॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
pṛthivyā́ḥ purī́ṣam asy ápsō nā́ma tā́ṃ tvā víśve abhí gṛṇantu devā́ḥ | stóma-pṛṣṭhā ghṛtá-vatīhá sīda prajā́vad asmè dráviṇā́ ’yajasva | aśvínā ’dhvaryū sādáyatām ihá tvā́
汝为大地之填充之土;汝之名曰“水”(Āpas):愿一切诸神共来称颂汝。汝以颂歌为背,富于酥油(ghṛta),请在此安坐;为我等祭献而赢得具后嗣之财富。阿湿毗那(Aśvinā)二神,作为祭官 Adhvaryu,将在此使汝就座。
पृथिव्याः । पुरीषम् । असि । अप्सः । नाम । ताम् । त्वा । विश्वे । अभि । गृणन्तु । देवाः । स्तोम-पृष्ठा । घृत-वती । इह । सीद । प्रजा-वत् । अस्मे इति । द्रविणा । आ-यजस्व । अश्विना । अध्वर्यू इति । सादयताम् । इह । त्वा ।