अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रिष्टुब्ग्रै॒ष्मी॑ त्रि॒ष्टुभ॑: स्वा॒रᳪ स्वा॒राद॑न्तर्या॒मो॒ऽन्तर्या॒मात्प॑ञ्चद॒शः प॑ञ्चद॒शाद् बृ॒हद् भ॒रद्वा॑ज॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑ गृह्णामि प्र॒जाभ्य॑:
ayáṃ dakṣiṇā́ viśvákarmā tásya máno vaiśvakarmaṇáṃ grīṣmó mānasás triṣṭúb graiṣmī́ triṣṭúbhaḥ svārám svārā́d antaryāmó ’ntaryāmā́t pañcadaśáḥ pañcadaśā́d bṛhád bháradvāja ṛ́ṣiḥ prajā́patigṛhītayā tváyā máno gṛhṇāmi prajā́bhyaḥ
此为右方,即「Viśvakarman」。其心意为「Viśvakarman」之心;夏为心意之季;「Triṣṭubh」为夏之韵律;由「Triṣṭubh」生「Svāra」;由「Svāra」生「Antaryāma」;由「Antaryāma」生「Pañcadaśa」;由「Pañcadaśa」生「Bṛhat」。「Bharadvāja」为圣见者(ṛṣi)。以汝——为「Prajāpati」所摄持者——我为诸众生摄取心意。
अ॒यम् । द॒क्षि॒णा । वि॒श्वक॑र्मा । तस्य॑ । मनः॑ । वै॒श्व॒क॒र्म॒णम् । ग्री॒ष्मः । मा॒न॒सः । त्रि॒ष्टुब् । ग्रै॒ष्मी॑ । त्रि॒ष्टुभः॑ । स्वा॒रम् । स्वा॒रात् । अ॒न्त॒र्या॒मः । अ॒न्त॒र्या॒मात् । प॒ञ्च॒द॒शः । प॒ञ्च॒द॒शात् । बृ॒हद् । भ॒रद्वा॑जः । ऋषिः॑ । प्र॒जाप॑ति-गृहीतया । त्वया॒ । मनः॑ । गृ॒ह्णा॒मि॒ । प्र॒जाभ्यः॑