अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑य॒त्र्यै गा॑य॒त्रं गा॑य॒त्रादु॑पा॒ᳪशुरु॑पा॒ᳪशोस्त्रि॒वृत् त्रि॒वृतो॑ रथन्त॒रं वसि॑ष्ठ॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्य॑:
ayáṃ puró bhuvas tásya prāṇó bhauvāyanó vásantaḥ prāṇāyanó gāyatrī́ vāsantī́ gāyátryai gāyatráṃ gāyatrā́d upā́ṃśur upā́ṃśos trivṛ́t trivṛ́to rathantaráṃ vásiṣṭha ṛ́ṣiḥ prajā́patigṛhītayā tváyā prāṇáṃ gṛhṇāmi prajā́bhyaḥ
此为前方,即「Bhuvas」。其气息为「Bhauvāyana」;春为气息之行程;「Gāyatrī」确为春;为「Gāyatrī」而有「Gāyatra」;由「Gāyatra」生「Upāṃśu」;由「Upāṃśu」生「Trivṛt」;由「Trivṛt」生「Rathantara」。「Vasiṣṭha」为圣见者(ṛṣi)。以汝——为「Prajāpati」所摄持者——我为诸众生摄取气息。
अ॒यम् । पु॒रः । भुवः॑ । तस्य॑ । प्रा॒णः । भौ॑वाय॒नः । व॒स॒न्तः । प्रा॒ण॒-आ॒य॒नः । गा॒य॒त्री । वा॒स॒न्ती । गा॒य॒त्र्यै । गा॒य॒त्रम् । गा॒य॒त्रात् । उ॒पा॒ᳪशुः । उ॒पा॒ᳪशोः । त्रि॒वृत् । त्रि॒वृतः॑ । र॒थ॒न्त॒रम् । वसि॑ष्ठः । ऋषिः॑ । प्र॒जाप॑ति-गृहीतया । त्वया॑ । प्रा॒णम् । गृ॒ह्णा॒मि॒ । प्र॒जाभ्यः॑