वस॑व॒स्त्वाऽऽछृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रुद्रास्त्वा॒ऽऽछृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्दसाऽङ्गिर॒स्वदा॑दि॒त्यास्त्वाऽऽछृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा आछृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत्
vásavas tvā́ ’āchṛndantu gāyatréṇa chándasā ’ṅgirasvát | rudrā́s tvā́ ’āchṛndantu trā́iṣṭubhena chándasā ’ṅgirasvát | ādityā́s tvā́ ’āchṛndantu jā́gatena chándasā ’ṅgirasvát | víśve tvā devā́ vaiśvānará āchṛndantv ánuṣṭubhena chándasā ’ṅgirasvát
愿瓦苏诸神以伽耶特丽(Gāyatrī)韵律塑成汝,如安吉拉萨(Aṅgirasa)之作;愿鲁德罗诸神以特里什图布(Triṣṭubh)韵律塑成汝,如安吉拉萨之作;愿阿底提耶诸神以伽迦提(Jagatī)韵律塑成汝,如安吉拉萨之作;愿一切诸神——毗湿瓦那罗(Vaiśvānara)者——以阿努什图布(Anuṣṭubh)韵律塑成汝,如安吉拉萨之作。
वसवः । त्वा । आ-छृन्दन्तु । गायत्रेण । छन्दसा । अङ्गिरस्वत् । रुद्राः । त्वा । आ-छृन्दन्तु । त्रैष्टुभेन । छन्दसा । अङ्गिरस्वत् । आदित्याः । त्वा । आ-छृन्दन्तु । जागतेन । छन्दसा । अङ्गिरस्वत् । विश्वे । त्वा । देवाः । वैश्वानराः । आ-छृन्दन्तु । अनुष्टुभेन । छन्दसा । अङ्गिरस्वत्