स॒वि॒त्रा प्र॑सवि॒त्रा सर॑स्वत्या वा॒चा त्वष्ट्रा॑ रू॒पैः पू॒ष्णा प॒शुभि॒रिन्द्रे॑णा॒स्मे बृह॒स्पति॑ना॒ ब्रह्म॑णा॒ वरु॑णे॒नौज॑सा॒ऽग्निना॒ तेज॑सा॒ सोमे॑न॒ राज्ञा॒ विष्णु॑ना दश॒म्या दे॒वत॑या॒ प्रसू॑त॒: प्र स॑र्पामि
savitrā́ prasavitrā́ sarasvatyā́ vācā́ tvaṣṭrā́ rūpaíḥ pūṣṇā́ paśúbhir índreṇā́smé bṛ́haspátinā bráhmaṇā váruṇenáujasā́’gnínā téjasā sómená rā́jñā víṣṇunā daśamyā́ devátayā prasūtáḥ prá sarpāmi
由娑维特利(Savitṛ)所推动,确由推动者所推动;由萨拉斯瓦蒂(Sarasvatī)以言语;由特瓦什特利(Tvaṣṭṛ)以形相;由普尚(Pūṣan)以牲畜;由因陀罗(Indra)为我等之福;由布里哈斯帕提(Bṛhaspati)以祈祷;由伐楼那(Varuṇa)以威力;由阿耆尼(Agni)以光辉;由苏摩王(Soma Rājā);由毗湿奴(Viṣṇu);由第十之神明——由神性所促发,我前行(匍匐而进)。
सवित्रा । प्रसवित्रा । सरस्वत्या । वाचा । त्वष्ट्रा । रूपैः । पूष्णा । पशुभिः । इन्द्रेण । अस्मे इति । बृहस्पतिना । ब्रह्मणा । वरुणेन । ओजसा । अग्निना । तेजसा । सोमेन । राज्ञा । विष्णुना । दशम्या । देवतया । प्रसूतः । प्र । सर्पामि