Adhyaya 39
Vayaviya SamhitaUttara BhagaAdhyaya 3959 Verses

ध्यानप्रकारनिर्णयः / Determination of the Modes of Meditation (on Śrīkaṇṭha-Śiva)

第39章为一篇关于禅观(dhyāna)的技术性论述,说明其以圣颈者室利迦ṇṭha(Śiva)为中心、循序渐进的修持法。优波摩纽指出,瑜伽行者观想室利迦ṇṭha,因为忆念圣尊即可迅速成就所求。经文继而区分为令心安住的粗观(sthūla-dhyāna,依托对象)与更为微细的取向(sūkṣma)及无境观(nirviṣaya)。它强调直接观照湿婆能得一切悉地;即便观修其他形相,也应以湿婆之相为内在所指。禅观被描述为通过反复修习而生定力,从有境/有内容(saviṣaya)渐入无境(nirviṣaya)。所谓“无对象禅”亦被细致阐明:乃是觉知(buddhi)的相续之流(buddhi-santati)趋向无相自觉(nirākāra)。又以有种子(sabīja,有所依)与无种子(nirbīja)两类来统摄修法,劝初学先行有种子,至究竟时入无种子以获圆满成就;并提及调息(prāṇāyāma)能次第引生寂静(śānti)等诸境界。

Shlokas

Verse 1

उपमन्युरुवाच । श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः । प्रसिध्यंतीति मत्वैके तं वै ध्यायंति योगिनः

优波摩纽说道:“忆念圣喉主(Śrīkaṇṭhanātha,湿婆)者,一切所求当下圆满。知此为真,诸瑜伽行者唯独观想于祂。”

Verse 2

स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते । स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम्

为令心安住,有人修持对粗显相的观想。于粗显中,心渐趋不动;及至转入微细境界,便稳固安立其中。

Verse 3

शिवे तु चिंतिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः । मूर्त्यंतरेषु ध्यातेषु शिवरूपं विचिंतयेत्

若直接观想湿婆本身,一切悉地皆得成就。即便观修其他神圣形相,也应观其为湿婆之形。

Verse 4

लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः । ध्यानमादौ सविषयं ततो निर्विषयं जगुः

应当观照心之安住,并于此处反复修念。他们宣说:禅观起初是有境(saviṣaya),继而转为无境(nirviṣaya)。

Verse 5

तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् । बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते

于此,贤者之见是:并无全然无境的禅观。因为所谓禅观,即是智性(buddhi)某种相续不断的流注。

Verse 6

तेन निर्विषया बुद्धिः केवलेह प्रवर्तते । तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम्

由此微妙的修持,智性/心识离诸境相,于此当下唯在纯净觉知中运转。因此应修有境之禅,依止可感知之所缘,如初升旭日之光芒。

Verse 7

सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः । यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम्

依于微细而无所缘之禅观,真实而言无异于至上实相本身。若以所缘而修禅观,则须依托于有相之形——一可见可依的显现支撑。

Verse 8

निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् । निर्बीजं च सबीजं च तदेव ध्यानमुच्यते

禅观被认为是无相的内在自觉,远离外境所缘。此禅观亦被称为二种:无种子(nirbīja)与有种子(sabīja)。

Verse 9

निराकारश्रयत्वेन साकाराश्रयतस्तथा । तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम्

由于至上者既可依无相而趋近,亦可依有相而趋近,因此应先修有所缘之观——具“种子”(bīja)之观,如持真言或观圣相。

Verse 10

अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये । प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात्

最终,应令心归于无所缘境,并修无种三昧(nirbīja),以成就一切灵性圆满。由调息(prāṇāyāma)之力,诸天圣成就——先从内在寂安起——依次渐渐圆成。

Verse 11

शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् । शमः सर्वापदां चैव शांतिरित्यभिधीयते

安宁、深寂、内在光明与澄澈清明——乃至更超越者——并且在一切逆境中自持自制:这一切皆称为“寂安(śānti)”,即真实之和平。

Verse 12

तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते । बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते

内外黑暗的止息,被赞为“极寂(praśānti)”,即真实的安宁。凡能如光明般照耀,显现外境与内在真我者,名为“辉耀(dīpti)”。

Verse 13

स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः । कारणानि च सर्वाणि सबाह्याभ्यंतराणि च

安住于自身真实本性之境(内在稳固),智者宣说为“清净悦(prasāda)”,即宁静澄明。它统摄一切因缘,外在与内在皆然。

Verse 14

एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् । ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः

既已了悟此四重教诲,修观者当恒常修持禅定——具足正智与离欲(vairāgya),并常令其心不散乱。

Verse 15

श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः । ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः

具足信心、内心澄明安宁者,被贤善之人称为“修禅观者”。动词词根 dhyai 记为“观想、思惟”之义;因此,禅观即是一次又一次、不断不绝地观想湿婆(Śiva)。

Verse 17

योगाभ्यासस्तथाल्पे ऽपि यथा पापं विनाशयेत् । ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम्

即使少许修习瑜伽也能摧灭罪业;同样,若以信心哪怕仅一刹那观想帕拉梅湿伐罗(Parameśvara),诸垢染亦随之消融。

Verse 18

अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते । बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलंबनम्

当心不散乱之时,此境称为禅定(dhyāna)。此禅定之性,为辨知之慧(buddhi)不断流注;故当执持一稳固所缘(ālambana)作为依止。

Verse 19

ध्येयमित्युच्यते सद्भिस्तच्च सांबः स्वयं शिवः । विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम्

贤智之士宣说:真正的所缘(观想之境)无他,唯有三婆——即湿婆自身。由此观修生起对解脱的确定信解,并得圆满自在之主宰力,乃至从“阿尼玛”(极微)等开始的微妙成就。

Verse 20

शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम् । यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात्

圆满的湿婆禅观之目的已被直说:由此禅观可得安乐与解脱;亦由禅观而得无畏。

Verse 21

तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः । नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः

因此,当舍离一切牵缠与散乱,使自身安住于禅观。因为离开禅观便无真实之智;而不受瑜伽调御之人,亦不能生起禅观。

Verse 22

ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः । ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम्

凡具足禅观与解脱之智者,便能渡越轮回(saṃsāra)之海。此智安然澄明,专注一境,远离一切附加限制(upādhi)。

Verse 23

योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति । प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः

对恒常安住于瑜伽修持的瑜伽行者,成就必定现前。当诸罪业尽除无余,心自然趋向正智与禅定的融入——由此走向对湿婆(Śiva)的证悟。

Verse 24

पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा । यथावह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत्

对那些被罪业所伤、智慧被遮蔽的人而言,连关于祂(湿婆)的消息也极难得闻。然而当那炽盛的大火——湿婆之知与恩典之火——被点燃时,干与湿皆被焚尽:显露的垢染与深藏的垢染同归灰烬。

Verse 25

तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात् । अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः

同样,禅观之火于刹那间焚尽善业与恶业;正如一盏微小的灯也能驱散广大的黑暗。

Verse 26

योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत् । ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम्

即使少许有纪律的瑜伽修习,也能摧毁大罪;同样,若以信心哪怕只在一刹那观想帕拉梅湿伐罗(主湿婆),亦成净化之力,斩除广大恶业。

Verse 27

यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते । नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः

由禅定所生的至上善(śreyas)实无穷尽。没有任何圣地朝圣可与禅定等同,也没有任何苦行可与禅定等同。

Verse 28

नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत् । तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान्

没有任何祭祀(yajña)可与禅定相比;因此应当勤修禅定。诸朝圣之地不过是蓄满水的池沼,而人们通常所趋向的诸神,不过是石与泥所塑之像。

Verse 29

योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात् । योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम्

由于安住于对自我本性的直接确信,瑜伽行者不再依赖外在支撑。瑜伽行者之身亦趋于微细,并在至上主宰帕提——湿婆的恩 grace 中,显现可直接觉知的自在神力(aiśvarya)。

Verse 30

यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् । यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः

正如未调伏者以泥土、木材等造作粗重之相;同样在此世间,出入内廷者为王所爱,并非在外游走之人。

Verse 31

तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः । बहिस्करा यथा लोके नातीव फलभोगिनः

同样,专注于内观者为商婆(Śambhu)所爱,并非执著于仅仅仪式行为之人。因为外在的炫示——如世间浮华的装饰——不能令人成就并深享真实之果(修行之果)。

Verse 32

दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः । यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः

正如在国王宫中所见,此处亦然:为业行所系之人,纵然奋起以求智瑜伽之旨,途中亦可能遭遇障碍。

Verse 33

योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति । अनुभूय सुखं तत्र स जातो योगिनां कुले

仅以对瑜伽的恳切精进,便能往至鲁陀罗之界;在彼处亲证安乐之后,复得生于瑜伽行者之族。

Verse 34

ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते । जिज्ञासुरपि योगस्य यां गतिं लभते नरः

复得解脱之智的瑜伽,便能超越轮回。即使只是渴求明了瑜伽之人,也能获得瑜伽所赐的同一境界与行程。

Verse 35

न तां गतिमवाप्नोति सर्वैरपि महामखैः । द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम्

彼至上境界,纵行一切大祭亦不能得;亦非以厚礼恭敬千万二生、通达吠陀之贤者所积之福德而可获。

Verse 36

भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने । यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम्

即使仅以一份微薄施食供养奉修湿婆瑜伽之行者,亦得同等功德:如同为祭祀与阿耆尼火供(Agnihotra)而施赠,并在诸圣地渡口(tīrtha)行火供(homa)之果报。

Verse 37

योगिनामन्नदानेन तत्समस्तं फलं लभेत् । ये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम्

以食物供养湿婆之瑜伽行者,即得此圣善功德之全果;然那些愚迷之人若诋毁、轻蔑湿婆的瑜伽行者,便招致恶业,堕失正见。

Verse 38

श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् । सति श्रोतरि वक्तास्यादपवादस्य योगिनाम्

由于其功德衰败,那些听闻者堕入诸地狱;而当有听众在场时,说话者便须承担诽谤瑜伽行者之罪。

Verse 39

तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः । ये पुनः सततं भक्त्या भजंति शवयोगिनः

因此,那听闻之后反而更增罪业者,在大德看来,确实应受严厉惩罚。然那些以恒常信爱(bhakti)礼敬主湿婆的湿婆瑜伽行者,则属别类——坚住于奉爱,安立于与湿婆合一之道。

Verse 40

ते विदंति महाभोगानंते योगं च शांकरम् । भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः

他们知晓至上的妙乐,也知晓由商羯罗(Śiva)所赐、引人超越一切享乐的湿婆瑜伽。故凡求世间享受之人,当如法恭敬供养奉湿婆之瑜伽行者。

Verse 41

प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः । योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः

以供给住处、饮食与水,又施与卧具、覆被等物,便能建立瑜伽之法度。此瑜伽法(yoga-dharma)既与轮回世间相系,遂坚不可破——如同堡垒——能抵御罪业的重击。

Verse 42

वज्रतंदुलवज्ज्ञेयं तथा पापेन योगिनः । न लिप्यंते च तापौघैः पद्मपत्रं यथांभसा

当知诸瑜伽行者于罪业如金刚般坚固之谷粒;万般苦恼不能染著于彼,犹如莲叶不为水所湿。

Verse 43

यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः । सो ऽपि देशो भवेत्पूतः सपूत इति किं पुनः

无论何方国土,若有恒常安住于湿婆瑜伽之牟尼居住,其地即得清净。若连处所尚被其净化,何况牟尼自身,其清净圣洁更当何如!

Verse 44

तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः । सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत्

是故,明辨的求道者当舍离一切他务,勤修“湿婆瑜伽”,以尽除诸苦——使灵我脱离系缚,安住于主宰(Pati)之中。

Verse 45

सिद्धयोगफलो योगी लोकानां हितकाम्यया । भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम्

具足瑜伽成就之果的瑜伽行者,为诸世界之利益起愿,虽可随意受用所欲之境,而仍可住于此间——自在往来,却恒安住于已确立之境。

Verse 46

अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् । त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम्

又或者,了知由诸根所生之乐实为卑小,当舍弃之;依“离贪瑜伽”(virāga-yoga)的修持,并以自心坚决之愿,令自身解脱于业之系缚。

Verse 47

यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा । स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत्

凡人若觉死期将近,又屡见凶兆,当一心欲启修瑜伽之行,归依于湿婆的神圣圣域(Śiva-kṣetra)。

Verse 48

स तत्र निवसन्नेव यदि धीरमना नरः । प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत्

若此人心志坚定,仍住于彼处,则纵无疾病等侵逼,亦能自愿舍离生命之气(prāṇa),安然达于终极。

Verse 49

कृत्वाप्यनशनं चैव हुत्वा चांगं शिवानले । क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात्

即便行绝食至死,或将自身作为供品投入湿婆之火,或投身于湿婆的圣地圣渡(tīrtha)并在其中沉浸此身——(人们以此等行持求得身缚之终结)。

Verse 50

शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत् । सद्य एव विमुच्येत नात्र कार्या विचारणा २

凡依湿婆圣典所说之法而舍离命息(prāṇa)者,即刻得解脱;对此无需再作思量。

Verse 51

रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः । म्रियते यदि सोप्येवं मुच्यते नात्र संशयः

即使有人为疾病等诸苦所迫而归依湿婆的圣域(kṣetra),若在那般境况中于彼处命终,他亦得解脱;对此毫无疑惑。

Verse 52

यथा हि मरणं श्रेष्ठमुशंत्यनशनादिभिः । शास्त्रविश्रंभधीरेण मनसा क्रियते यतः

正如有人以绝食等修行宣称“死亡”为至高之归宿,同样,此事亦由心而成——那心因信赖经典(śāstra)而沉稳坚定。

Verse 53

शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा । यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते

无论是诛杀那沉溺于诋毁湿婆(Śiva)之人,或是自己在折磨中舍弃那难舍的生命之息,此人皆不再复生于世。

Verse 54

शिवनिन्दारतं हंतुमशक्तो यः स्वयं मृतः । सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः

若有人虽不能诛灭那沉溺于诋毁湿婆者,却在此举中自身殒命,则其人当即得解脱;并且与他同在的,家族三组七代亦得解脱。

Verse 55

शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा । न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः

在解脱之道上,无人能与那为湿婆之缘故——乃至仅为湿婆的奉献者之缘故——舍弃生命者相比;此人于通往解脱(mokṣa)之路上无与伦比。

Verse 56

तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात् । एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा

因此,对他而言,脱离轮回之环的解脱来得更为迅速——只要以任何方式依止此处所教示的诸法门之一。

Verse 57

षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि । पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम्

若有人依正法成就六道(ṣaḍadhva)之净化(ṣaḍadhva-śuddhi)而后命终,则不应在此世为其举行亡后祭仪;正如对禽兽不行此礼一般。因为凭借湿婆(Śiva)解脱之修持,他已超越受缚灵魂之境。

Verse 58

नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः । शिवचारार्थमथवा शिवविद्यार्थमेव वा

他不应陷入仪式性的“不净”(āśauca)之中,尤其不应因儿子等缘故而受其牵缠——当其所为是奉行湿婆(Śiva)之戒行,或确为学习湿婆之真知时。

Verse 59

अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् । कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत्

随后,若有人欲以湿婆为念而行任何仪轨,当唯行吉祥善业;并应随自身能力,使湿婆的奉献者得以满足并加以敬奉。

Verse 60

धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः । नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः

湿婆行者应当受取那心归湿婆、且其后裔亦恒常奉事湿婆之人的财物;若无此等具湿婆心的家系,则应将其财物奉献于湿婆,不可施与仍被系缚为“兽魂”paśu者。

Frequently Asked Questions

The sampled passage is primarily doctrinal rather than event-narrative: it presents Upamanyu’s instruction on meditation on Śrīkaṇṭha-Śiva and the graded method of dhyāna.

It is treated as formless self-awareness (nirākāra-ātma-saṃvitti) and as a refined continuity of cognition (buddhi-santati), not mere blankness—culminating in nirbīja absorption oriented to ultimate attainment.

Sthūla vs sūkṣma contemplation; saviṣaya (object-supported) vs nirviṣaya (objectless/formless) dhyāna; and sabīja vs nirbīja stages, supported by prāṇāyāma and culminating in comprehensive siddhi.