Adhyaya 31
Rudra SamhitaSati KhandaAdhyaya 3138 Verses

नभोवाणी-दक्ष-निन्दा तथा सती-माहात्म्य-प्रतिपादनम् / The Celestial Voice Rebukes Dakṣa and Proclaims Satī’s Greatness

第31章属于达克沙祭祀(Dakṣa-yajña)的叙事脉络。梵天说:当祭仪进行之际,虚空中传来无形的天声(nabho/vyoma-vāṇī),在诸天与众会之前对达克沙发出宣告。天声严厉斥责达克沙的过失与伪善,指出其所作所为将招致灵性败坏、心智迷妄;并揭示他不肯听从权威劝诫,尤其不顾与达提奇(Dadhīci)相关的教导及湿婆派(Śaiva)的正见。即便有婆罗门离开祭场并宣下严厉诅咒,达克沙仍不知悔改。随后天声由责备转入正面教义:宣示萨蒂(Satī)恒常应受礼敬,为三界吉祥之母,是商羯罗(Śaṅkara)的半身伴侣(ardhāṅga-bhāginī),能赐予富足、护佑、所愿之福、名声,并最终成就享受(bhukti)与解脱(mukti)。本章旨在对达克沙的不敬作出明确的道德与祭仪裁断,并尊崇萨蒂为大自在天女(Māheśvarī),其尊荣关乎宇宙吉祥与正法、正祭的圆满施行。

Shlokas

Verse 1

ब्रह्मोवाच । एतस्मिन्नन्तरे तत्र नभोवाणी मुनीश्वर । अवोचच्छृण्वतां दक्षसुरादीनां यथार्थतः

梵天说道:“噢,诸牟尼之主,就在那一刻,彼处响起天际之声;当达叉、诸天及众人聆听之时,它如实而明白地宣说真理。”

Verse 2

व्योमवाण्युवाच । रे रे दक्ष दुराचार दंभाचारपरायण । किं कृतं ते महामूढ कर्म चानर्थकारकम्

虚空之声说道:“喂,喂,达叉!行止邪恶,沉溺于伪善的炫示!大愚之人,你做了什么?你这行为实为招致灾祸之因。”

Verse 3

न कृतं शैवराजस्य दधीचेर्वचनस्य हि । प्रमाणं तत्कृते मूढ सर्वानंदकरं शुभम्

迷妄之人啊,你未将达提奇关于那位奉事湿婆之王的言教奉为权威。那教诲乃神圣之证,吉祥圆满,能赐众生欢喜。

Verse 4

निर्गतस्ते मखाद्विप्रः शापं दत्त्वा सुदुस्सहम् । ततोपि बुद्धं किंचिन्नो त्वया मूढेन चेतसि

那位婆罗门已从你的祭祀中离去,并降下极其难当的诅咒。可即便如此,你仍毫无所悟;你这迷妄之心依旧昏沉。

Verse 5

ततः कृतः कथं नो वै स्वपुत्र्यास्त्वादरः परः । समागतायास्सत्याश्च मंगलाया गृहं स्वतः

“既如此,我们怎能不以至高的礼敬对待自己的女儿?萨蒂(Satī)亲自随愿来到这吉祥之宅。”

Verse 6

सतीभवौ नार्चितौ हि किमिदं ज्ञानदुर्बल । ब्रह्मपुत्र इति वृथा गर्वितोसि विमोहितः

噢,真知薄弱者——你为何不礼敬供奉湿婆(Śiva)与萨蒂(Satī)?你既迷妄,却只因被称作“梵天之子”便徒然自负、空自骄矜。

Verse 7

सा सत्येव सदाराध्या सर्वा पापफलप्रदा । त्रिलोकमाता कल्याणी शंकरार्द्धांगभागिनी

她——萨蒂(Satī)自身——恒常值得礼拜。她圆满赐予能涤除罪业之果报。她是三界之母、吉祥的卡利亚妮(Kalyāṇī),亦是与商羯罗(Śaṅkara)同分半身者。

Verse 8

सा सत्येवार्चिता नित्यं सर्वसौभाग्यदायिनी । माहेश्वरी स्वभक्तानां सर्वमंगलदायिनी

女神萨提雅恒常受礼敬,赐予一切吉祥福运。作为摩诃伊湿瓦丽,她将诸般祝福与安泰尽赐于自己的虔信者。

Verse 9

सा सत्येवार्चिता नित्यं संसारभयनाशिनी । मनोभीष्टप्रदा दैवी सर्वोपद्रवहारिणी

当那位女神以真实与至诚而受礼敬时,她恒常摧灭轮回世间的恐惧;她赐予心中所愿,并以神圣之力除去一切灾厄与障碍。

Verse 10

सा सत्येवार्चिता नित्यं कीर्तिसंपत्प्रदायिनी । परमा परमेशानी भुक्तिमुक्तिप्रदायिनी

那至上女神——萨蒂自身——若以真实之心日日礼敬,便赐予名声与福富。她至高无上,为至上主之主母(帕拉梅什瓦丽),并赐予世间享受(bhukti)与究竟解脱(mukti)。

Verse 11

सा सत्येव जगद्धात्री जगद्रक्षणकारिणी । अनादिशक्तिः कल्पान्ते जगत्संहारकारिणी

她确是萨蒂——诸世界的持持者、宇宙的守护者。她是无始的神力(Śakti),而在一劫终尽之时,她又成为世界毁融的执行者。

Verse 12

सा सत्येव जगन्माता विष्णु माताविलासिनी । ब्रह्मेन्द्रचन्द्रवह्न्यर्कदेवादिजननी स्मृता

她确是萨蒂——宇宙之母——以神圣戏游(līlā)示现为毗湿奴之母;并被忆念为梵天、因陀罗、月神、火神、日神以及诸余天神的生母。

Verse 13

सा सत्येव तपोधर्मदातादिफलदायिनी । शंभुशक्तिर्महादेवी दुष्टहंत्री परात्परा

唯有她即是真理之体,赐予苦行、正法与清净布施之果报。作为商婆(Śambhu)之圣力(Śakti),她是大女神(Mahādevī)——摧灭恶徒者——超越至上之至上。

Verse 14

ईदृग्विधा सती देवी यस्य पत्नी सदा प्रिया । तस्यै भागो न दत्तस्ते मूढेन कुविचारिणा

“萨蒂女神如此贞善尊贵,常为湿婆所钟爱的圣妃;而你,哦达克沙,因愚昧与乖谬之见,竟未将祭祀之分赐予她。”

Verse 15

शंभुर्हि परमेशानस्सर्वस्वामी परात्परः । विष्णुब्रह्मादिसंसेव्यः सर्वकल्याणकारकः

诚然,商布(Śambhu)乃至上主(Parameśāna),为宇宙之主,超越至高;连毗湿奴、梵天及诸天神亦敬奉礼拜于祂,而祂是一切吉祥之因。

Verse 16

तप्यते हि तपः सिद्धैरेतद्दर्शनकांक्षिभिः । युज्यते योगिभिर्योगैरेतद्दर्शनकांक्षिभिः

诚然,已成就的悉地者为渴求见祂之圣观(darśana)而修苦行;诸瑜伽行者亦为渴求唯祂之圣观而勤修种种瑜伽法门。

Verse 17

अनंतधनधान्यानां यागादीनां तथैव च । दर्शनं शंकरस्यैव महत्फलमुदाहृतम्

即便与无尽的财富与粮谷、与祭祀(yajña)及诸般仪轨相比,唯有得见商羯罗(Śaṅkara)之圣观(darśana),被宣说为结得最广大之果。

Verse 18

शिव एव जगद्धाता सर्वविद्यापतिः प्रभुः । आदिविद्यावरस्वामी सर्वमंगलमंगलः

唯有湿婆(Śiva)是宇宙的护持者,是自在的主宰、万学之主。祂统御原初至高的智慧,为一切吉祥之中之吉祥。

Verse 19

तच्छक्तेर्न कृतो यस्मात्सत्करोद्य त्वया खल । अतएवाऽध्वरस्यास्य विनाशो हि भविष्यति

因为今日,恶人啊,你未曾向那神圣的力量(湿婆—夏克蒂)致以应有的敬奉;因此,此祭祀的毁灭必将发生。

Verse 20

अमंगलं भवत्येव पूजार्हाणामपूजया । पूज्यमाना च नासौ हि यतः पूज्यतमा शिवा

当值得崇拜的人不被尊重时,不祥之兆必然会产生。即使献上祭品,她也并非真正被崇拜,因为湿婆(至高女神)才是最值得崇拜的。

Verse 21

सहस्रेणापि शिरसां शेषो यत्पादजं रजः । वहत्यहरहः प्रीत्या तस्य शक्तिः शिवा सती

即使是拥有千头的舍沙,也日复一日地满怀爱意地承载着她脚下的尘土。这就是萨蒂——吉祥的湿婆——她是湿婆神的能量(Shakti)。

Verse 22

यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् । विष्णुविष्णुत्वमापन्नस्तस्य शंभोः प्रिया सती

通过不断冥想并虔诚地崇拜商菩(湿婆神)的莲花足,毗湿奴达到了他的完全境界;而萨蒂正是那位商菩心爱的妻子。

Verse 23

यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् । ब्रह्मा ब्रह्मत्वमापन्नस्तस्य शंभोः प्रिया सती

通过不断冥想并虔诚地崇拜那双莲花足,梵天达到了梵天的境界;而萨蒂正是那位商菩(湿婆神)的爱人。

Verse 24

यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् । इन्द्रादयो लोकपालाः प्रापुस्स्वं स्वं परं पदम्

他们恒常观想并恭敬供奉主之莲足,因而因陀罗及诸世界护持者,各各随其分量,得证自身之最上境界——此乃由虔敬礼拜湿婆所生之恩德。

Verse 25

जगत्पिता शिवश्शक्तिर्जगन्माता च सा सती । सत्कृतौ न त्वया मूढ कथं श्रेयो भविष्यति

湿婆(Śiva)是宇宙之父,圣力(Śakti)——即萨蒂(Satī)——是宇宙之母。噫,迷妄之人,若你不以应有的恭敬礼赞供奉二圣,真正的福祉与吉祥又怎会在你身上生起?

Verse 26

दौर्भाग्यं त्वयि संक्रांतं संक्रांतास्त्वयि चापदः । यौ चानाराधितौ भक्त्या भवानीशंकरौ च तौ

不幸已临到你,灾厄也缠上你——因为你未以虔敬之心礼拜那对神圣的二尊:母神婆伐尼(Bhavānī)与商羯罗(Śaṅkara,湿婆)。

Verse 27

अनभ्यर्च्य शिवं शंभुं कल्याणं प्राप्नुयामिति । किमस्ति गर्वो दुर्वारस्स गर्वोद्य विनश्यति

“不先礼拜湿婆、商婆(Śambhu),又怎能获得吉祥之福?世间哪有不可摧的傲慢?那傲慢一旦昂起,今日亦必被摧灭。”

Verse 28

सर्वेशविमुखो भूत्वा देवेष्वेतेषु कस्तव । करिष्यति सहायं तं न ते पश्यामि सर्वथा

既已背离萨尔维沙(Sarveśa,主湿婆),这些天神之中又有谁能真正作你的助伴?我全然看不见有任何人能给你真实的援助。

Verse 29

यदि देवाः करिष्यंति साहाय्यमधुना तव । तदा नाशं समाप्स्यंति शलभा इव वह्निना

如果众神现在向你提供援助,那么他们必将遭到毁灭——就像飞蛾扑火一样。

Verse 30

ज्वलत्वद्य मुखं ते वै यज्ञध्वंसो भवत्वति । सहायास्तव यावंतस्ते ज्वलंत्वद्य सत्वरम्

愿你的脸在今天燃烧;让祭祀确实被毁掉。你所有的盟友,愿他们也在今天立刻燃烧。

Verse 31

अमराणां च सर्वेषां शपथोऽमंगलाय ते । करिष्यंत्यद्य साहाय्यं यदेतस्य दुरात्मनः

为了你的不幸,所有长生不老者的誓言将成立:今天他们确实会向这个邪恶灵魂的人提供援助。

Verse 32

निर्गच्छंत्वमरास्स्वोकमेतदध्वरमंडपात् । अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा

让天神们立刻从这个祭祀亭回到他们自己的住所。否则,你今天必将遭到彻底的毁灭。

Verse 33

निर्गच्छंत्वपरे सर्वे मुनिनागादयो मखात् । अन्यथा भवतां नाशो भविष्यत्यद्य सर्वथा

让其余一切——诸牟尼圣者、那伽龙族及其他众类——立刻离开此祭坛之场。否则,你们的毁灭必在今日降临,万无一失。

Verse 34

निर्गच्छ त्वं हरे शीघ्रमेतदध्वरमंडपात् । अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा

噢,哈利啊,速速离开这祭祀的坛亭。否则,你的毁灭今日必将降临,毫无疑问。

Verse 35

निर्गच्छ त्वं विधे शीघ्रमेतदध्वरमंडपात् । अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा

“噢,毗提(梵天)啊,速速离开这祭祀的坛亭。否则,你的毁灭今日必定发生,绝无差错。”

Verse 36

ब्रह्मोवाच । इत्युक्त्वाध्वरशालायामखिलायां सुसंस्थितान् । व्यरमत्सा नभोवाणी सर्वकल्याणकारिणी

梵天说道:说罢之后,那赐予一切吉祥的天上之声便归于寂然;而祭殿之中众人仍端然就座,秩序井然。

Verse 37

तच्छ्रुत्वा व्योमवचनं सर्वे हर्यादयस्सुराः । अकार्षुर्विस्मयं तात मुनयश्च तथा परे

听到那来自虚空的宣告,诸天神——以哈利为首——尽皆惊异;诸牟尼圣者与其他众人亦复如是,亲爱的啊。

Verse 51

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने नभोवाणीवर्णनं नामैकत्रिंशोऽध्यायः

至此,在《圣湿婆摩诃往世书》第二部《鲁陀罗集》之第二分《萨蒂品》,于萨蒂传说中,名为“天声之描述”的第三十一章圆满结束。

Frequently Asked Questions

A celestial voice (vyoma-/nabho-vāṇī) publicly rebukes Dakṣa during the sacrificial context, marking divine disapproval of his anti-Śiva stance and his neglect of Satī.

The passage encodes a Śaiva hermeneutic: yajña without devotion and right cognition becomes anarthakāraka (productive of harm), while honoring Satī–Śiva restores auspicious order and spiritual fruition.

Satī is presented as māheśvarī, trilokamātā, sarvamaṅgala-dāyinī, saṃsāra-bhaya-nāśinī, and bhukti-mukti-pradāyinī—functions that define her as both protective cosmic power and liberating divine presence.