Adhyaya 38
Rudra SamhitaParvati KhandaAdhyaya 3839 Verses

हिमवतः सुमङ्गलोत्सव-नगररचना (Himavān’s Auspicious Festival Preparations and City Adornment)

第38章描绘雪山王希摩梵(称为山主śaileśvara、卓越牟尼)为女儿之故,欢喜筹办一场非凡而极其吉祥的庆典,并在自城中大加装点。全章侧重仪式空间的营造与美学:正门由难提(Nandī)守护,又设一座对称的“人工”门,两门晶莹如水晶,彰显门阈的清净与神圣。道路洒水净化并加以修整,各门以吉祥物品与装饰植物点缀。庭院以植物与织物装饰——设芭蕉/ram bhā之柱(rambhāstambha)、系缚布线、陈列新鲜枝叶——继而悬挂茉莉花(mālatī)花鬘与光耀的门饰(torana),并在四方安置诸吉祥之物(maṅgala-dravya)。随后希摩梵召请毗湿瓦羯摩(Viśvakarmā)建造宏大的曼荼罗殿(maṇḍapa),设美丽的坛座/台座(vedikā),规模夸示壮阔、奇观纷呈,使“静物”似与“动者”(生灵)相竞,反之亦然,营造惊叹(camatkāra)与圆满的神圣感。总体而言,本章如同仪式场域的文本蓝图:净道、护门、依方位布置吉祥物,以及在伽尔伽(Garga)指导下适于正式仪程的中央会亭。

Shlokas

Verse 1

ब्रह्मोवाच । अथ शैलेश्वरः प्रीतो हिमवान्मुनि सत्तम । स्वपुरं रचयामास विचित्रं परमोत्सवम्

梵天说道:随后,山岳之主喜马梵心怀欢悦——噢,最胜牟尼——整饬自城,筹办一场奇妙而至为吉祥的盛典。

Verse 2

सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः । द्वारि द्वारि च रम्भादि मङ्गलं द्रव्यसंयुतम्

道路皆洒净水,精心整治,并以极盛的富丽庄严装点;每一门前都陈设吉祥之仪——有蓝婆等天女在侧——并备齐迎宾与庆典之物。

Verse 3

प्रांगणं रचयामास रम्भास्तंभसमन्वितम् । पट्टसूत्रैस्संनिबद्धरसालपल्लवान्वितम्

随后,她布置了一处庭院,以芭蕉茎作柱而庄严其间,又以布线系缚的芒果嫩枝加以装点。

Verse 4

मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् । शोभितम्मंगलद्रव्यैश्चतुर्दिक्षु स्थितैश्शुभैः

其处以茉莉(mālatī)花鬘庄严,辉耀的彩缨与门阙拱廊(torana)灿然生光。四方安置吉祥圣物;由此清净圣置,景象愈显庄严辉煌,堪为供奉吉祥主宰湿婆(Śiva)之所。

Verse 5

तथैव सर्वं परया मुदान्वितश्चक्रे गिरीन्द्रस्स्वसुतार्थमेव । गर्गम्पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगलं हि

同样,山王吉林陀罗(喜马拉雅)满怀至上的欢喜,为了自己女儿之故而周备安排一切。又以大威德的圣者伽尔伽(Garga)为先导,启动了吉祥的求婚提议,确为可呈之事。

Verse 6

आहूय विश्वकर्माणं कारयामास सादरम् । मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम्

他恭敬召请毗湿瓦羯摩(Viśvakarmā),令其悉心营建一座宽广的曼荼罗殿(maṇḍapa),以祭坛(vedikā)等诸般吉祥陈设而悦目庄严。

Verse 7

अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् । अनेकलक्षणोपेतं नानाश्चर्य्यसमन्वितम्

噢,诸天中的圣仙啊,此处广袤达一万由旬(yojana),具足种种殊相,充满无数奇妙之景。

Verse 8

स्थावरं जंगमं सर्वं सदृशन्तैर्मनोहरम् । सर्वतोऽद्भुतसर्वत्वं नानावस्तुचमत्कृतम्

一切不动之物与一切动者——尽皆如此——以相称的形相与相似之姿而显得悦目可爱。四方处处显现遍满的奇妙圆满,以无量多样之境的神奇令心神惊叹。

Verse 9

जंगमं विजितन्तत्र स्थावरेण विशेषतः । जंगमेन च तत्रासीज्जितं स्थावरमेव हि

在那里,动者被制伏——尤以不动者为甚;而在同一交锋之中,不动者亦确实被动者所制伏。

Verse 10

पयसा च जिता तत्र स्थलभूमिर्न चान्यथा । जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः

在那里,坚实的旱地竟被水所胜——别无他法。有些自诩博学之人,竟也分不清何者为水,何者为陆地。

Verse 11

क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपंक्तयः । क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः

有些地方有人工造作的狮子;有些地方则列列成行的是娑罗娑鸟(鹤群)。又有别处,冠羽分明的人工孔雀,秀丽可观,令人心悦。

Verse 12

क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैस्सह । मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा

有些地方,人工造作的女子与男子同舞。她们迷惑众人,而这些欺幻者又以矫饰之态四顾张望。

Verse 13

तथा तेनैव विधिना द्वारपाला मनोहराः । हस्तैर्धनूंषि चोद्धृत्य स्थावरा जंगमोपमाः

亦依同样的仪轨,安置了悦目之门卫;他们手擎弓矢,宛如不动的哨兵——却又可比作有情之众,似能行走转动。

Verse 14

द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता । सर्वलक्षणसंयुक्ता गताः साक्षत्पयोर्णवात

门前立着摩诃拉克什米——一具巧工造作、令人惊叹的形相——具足一切吉祥相,宛如亲自从乳海中现前而来。

Verse 15

गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः । तथाश्वाः न सादिभिश्चैव गजाश्च गजसादिभिः

又有大象华饰庄严——皆为巧作之象,卓绝无比。亦有骏马备具鞍辔;并有大象由象夫与善于驭象之人随侍左右。

Verse 16

रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः । वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा

战车由御者牵引而行,满载宏大奇观,亦在彼处显现;又有诸般乘具,以及步兵——其中多为机巧造作之物。

Verse 17

एवं विमोहनार्थन्तु कृतं वै विश्वकर्मणा । देवानां च मुनीनां च तेन प्रीतात्मना मुने

因此,噢圣者,为使其迷惑,毗湿伐羯磨确实以欢喜之心造作此等奇观,使诸天与诸仙为其所惑。

Verse 19

तस्योपरि महादिव्यम्पुष्पकं रत्नभूषितम् । राजितं पल्लवैश्शुभ्रश्चामरैश्च सुशोभितम्

其上立着至为神圣的花盖,宝珠庄严;嫩芽新叶映辉生光,又以明净雪白的拂尘(牦牛尾扇)点缀,愈显华美。

Verse 20

वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ । चतुर्दन्तो षष्टिवर्षौ भेदमानौ महाप्रभौ

左侧有两头大象,色泽宛如纯净克什米尔之色(近似藏红花)。各具四牙,年满六十;威力炽盛、光辉赫奕,正值发情之期,散发无比庄严。

Verse 21

तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ । चामरालंकृतौ दिव्यौ दिव्यालङ्कारभूषितौ

同样,由他造就两匹骏马,光耀如日,辉煌非凡——神圣之驹以拂尘(牦牛尾扇)为饰,并佩戴天界庄严之宝饰。

Verse 22

दंशिता वररत्नाढ्या लोकपालास्तथैव च । सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा

他们以最上妙宝严饰,光辉灿然;同样,诸方护世者(Lokapāla)——确然,一切天神——皆由毗湿瓦羯摩(Viśvakarmā)依其本然之理,巧作成就,圆满无缺。

Verse 23

तथा हि ऋषयस्सर्वे भृग्वाद्याश्च तपोधनाः । अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः

同样,一切仙圣(Ṛṣi)——以婆利古(Bhṛgu)等为首,富有苦行之财者——也皆如是;其余随侍的半神(upasura)亦复如是,诸多成就者(Siddha)也同被造成,达于同一境地。

Verse 24

विष्णुश्च पार्षदैस्सर्वैर्गरुडाख्यैस्समन्वितः । कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान्

同样,也塑造了一尊人造的毗湿奴(Viṣṇu)形像,诸名为迦楼罗(Garuḍa)之侍从悉皆随侍。其相呈现极其奇妙,令人叹异。

Verse 25

तथैवाहं सुतैवेदैस्सिद्धैश्च परिवारितः । कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद

同样地,噢苏多,我也被诸《吠陀》与诸悉地者所环绕。我被塑造成一具人为构作之形;同样地,我诵读了神圣的赞颂,噢那罗陀。

Verse 26

ऐरावतगजारूढश्शक्रस्स्वदलसंयुतः । कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसंनिभः

乘坐在爱罗婆多象背上的因陀罗(释迦罗),连同其随从,也在彼处被塑成一尊人为造作之像:诸相圆满,光辉如满月。

Verse 27

किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा । हिमागप्रेरितेनाशु क्लृप्तस्सुरसमाजकः

噢天界圣仙,又何必多言?在喜马拉雅的催促下,毗湿瓦羯摩迅速安排妥当一切,备齐诸神的全体会众。

Verse 28

एवंभूतः कृतस्तेन मण्डपो दिव्यरूपवान् । अनेकाश्चर्यसम्भूतो महान्देवविमोहनः

于是,那座曼荼罗殿由他建成,形相真如天界般庄严;具足无数奇妙,广大辉煌,魅力无边,甚至能令诸神亦为之倾心。

Verse 29

अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः । निवासार्थं सुरादीनां तत्तल्लोकाम् हि यत्नतः

随后,天界巧匠毗湿伐羯摩,心智宏大,奉吉利沙(主湿婆)之命,便勤勉地为诸天与其他神圣众生,悉心营建相应的居所与诸界。

Verse 30

तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः । रचितास्सुखदा दिव्या स्तेषां वै विश्वकर्मणा

就在那处,宏伟的宝榻被安置妥当,光辉灿然,奇妙无比。那些赐予安乐的天界座榻,确由毗湿伐羯摩为他们亲手造作。

Verse 31

तथाप्तसप्तलोकं वै विरेचे क्षणतोऽद्भुतम् । दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः

于是,自生者(梵天)在奇妙的一瞬间,顷刻造就了完整的七重世界,具足至上光辉,使之成为有身众生的居处。

Verse 32

तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् । विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम्

同样地,为毗湿奴显现出另一处至极辉耀的境界,名为“毗昆陀”;顷刻之间光明大放,神圣非凡,充满种种奇妙瑞相。

Verse 33

अमरेशगृहन्दिव्यं तथैवाद्भुतमुत्तमम् । विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम्

毗湿瓦羯摩营造了天界阿摩雷沙的宫殿,奇妙殊胜、无与伦比,具足一切福泽与主宰般的威严光华。

Verse 34

गृहाणि लोकपालानां विरेचे सुन्दराणि च । तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च

出于慈爱,亲爱的啊,他塑造了诸世界守护者(Lokapāla)的华美居所;同样地,在欢悦之中,他又创造了许多宏大、奇妙而神圣的境界与奇观。

Verse 35

अन्येषाममराणां च सर्वेषां क्रमशस्तथा । सदनानि विचित्राणि रचितानि च तेन वै

同样地,对于其余一切不死的天神(诸天),依次第而行,他确实为他们造就了奇妙多姿的居所。

Verse 36

विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः । विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च

毗湿瓦羯摩,这位大智者——既从商布(湿婆)得到了至上的恩赐——顷刻之间造就万物,只为令主湿婆欢喜。

Verse 37

तथैव चित्रं परमं महोज्ज्वलं महाप्रभन्देववरैस्सुपूजितम् । गिरीशचिह्नं शिवलोकसंस्थितं सुशोभितं शम्भुगृहं चकार

同样地,他造作了一处非凡居所:至妙奇绝、光辉炽盛;威仪广大,为诸天中最胜者如法礼敬;具吉利沙(主湿婆)之圣徽,安立于湿婆界(Śivaloka),庄严华美——这正是商布的圣殿宫邸。

Verse 38

एवम्भूता कृता तेन रचना विश्वकर्मणा । विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला

于是,这般奇妙的造作便由他——毗湿瓦羯摩——完成:绚丽多姿,只为取悦主湿婆;至为惊叹,光辉灿然。

Verse 39

एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् । पर्य्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः

如此,完成了一切世间的安排与常规礼仪之后,喜马察罗满怀欢喜,静候商婆——主宰湿婆的到来。

Verse 40

इति प्रोक्तमशेषेण वृत्तान्तम्प्रमुदावहम् । हिमालयस्य देवर्षे किम्भूयः श्रोतुमिच्छसि

如是,噢天界圣仙,我已详尽叙述关于喜马拉雅的欢喜因缘。你还愿再听些什么呢?

Frequently Asked Questions

It describes Himavān’s elaborate, auspicious preparation of his city and ceremonial venue—gate, roads, courtyard, toranas, and a vast maṇḍapa—undertaken for his daughter’s purpose, framed as a grand festival arrangement.

The chapter encodes a ritual grammar: purified approaches, protected thresholds, directional maṅgala placements, and a consecration-ready pavilion together create a ‘fit’ space for divine-human rite, mirroring temple/marriage liturgical design principles.

Key motifs include Nandī as threshold guardian, symmetry through a crafted counterpart, the four-direction deployment of auspicious substances, and Viśvakarmā’s wondrous architecture where the ‘immobile’ and ‘mobile’ appear to outdo each other, intensifying sacred marvel.