Adhyaya 39
Kotirudra SamhitaAdhyaya 3924 Verses

Śivarātri-vrata Udyāpana-vidhi (Completion Rite for the Śivarātri Observance)

第39章阐明湿婆夜誓戒(Śivarātri-vrata)的 udyāpana-vidhi,即圆满完成之仪,能令圣者 Śaṅkara 直接欢喜。诸仙询问其法,苏多答曰:此誓当依正典圆成,须持续十四年(caturdaśābda)修持,并严守饮食:trayodaśī 日一食(ekabhakta),caturdaśī 日禁食(upavāsa)。至湿婆夜当往 Śivālaya,依规行 pūjā,建立名为 Gaurī-tilaka 的加持曼荼罗,并于预备的坛亭内绘制吉祥图 bhadra-maṇḍala/sarvatobhadra。又令安置多只仪式宝瓶(kuṃbha),以 Prajāpati 之名类标识,饰以布帛与果品并奉 dakṣiṇā,分列曼荼罗两侧,中瓶可用金制。最后安奉 Śambhu 与 Umā 的小金像(重一 pala 或半 pala),令 Śivā 居左,通宵礼拜;以中心与周缘的次第、吉祥几何与 Śiva-Śakti 合一,象征誓戒圆满(pūrṇatā)。

Shlokas

Verse 1

ऋषय उचुः । उद्यापनविधिं ब्रूहि शिवरात्रिव्रतस्य च । यत्कृत्वा शंकरस्साक्षात्प्रसन्नो भवति धुवम्

诸仙人说道:“也请宣说湿婆夜誓戒的优陀耶般那(udyāpana,圆满结行之仪);行此之后,商羯罗(Śaṅkara)本尊必定亲自欢喜。”

Verse 2

सूत उवाच । श्रूयतामृषयो भक्त्या तदुद्यापनमादरात् । यस्यानुष्ठानतः पूर्णं व्रतं भवति तद्ध्रुवम्

苏多说:“诸位仙人,请以虔敬之心、郑重其事地聆听那誓戒的优陀耶般那(结行之仪);依此奉行,誓愿必定圆满完成。”

Verse 3

चतुर्दशाब्दं कर्तव्यं शिवरात्रिव्रतं शुभम् । एकभक्तं त्रयोदश्यां चतुर्दश्यामुपोषणम्

吉祥的湿婆夜(Śivarātri)誓戒应当持守十四年。于第十三日仅食一餐,于第十四日则当守斋禁食。

Verse 4

शिवरात्रिदिने प्राप्ते नित्यं संपाद्य वै विधिम् । शिवालयं ततो गत्वा पूजां कृत्वा यथाविधि

当神圣的湿婆夜(Śivarātri)来临时,应如法完成每日所定的仪轨;随后前往湿婆神庙,依规矩如仪奉行礼拜供养。

Verse 5

ततश्च कारयेद्दिव्यं मण्डलं तत्र यत्नतः । गौरीतिलकनाम्ना वै प्रसिद्धं भुवनत्रये

随后,应在彼处谨慎布置一座神圣的曼荼罗。此曼荼罗以“高丽-提拉迦(Gaurī-tilaka)”之名,闻名于三界。

Verse 6

तन्मध्ये लेखयेद्दिव्यं लिंगतो भद्रमण्डलम् । अथवा सर्वतोभद्रं मण्डपान्तः प्रकल्पयेत्

在其中央,应依于林伽(Liṅga)绘制一座神圣吉祥的曼荼罗。或者就在曼荼罗亭(maṇḍapa)之内,布置“萨尔瓦托跋陀罗(sarvatobhadra)”——四方皆利的吉祥阵式。

Verse 7

कुंभास्तत्र प्रकर्तव्याः प्राजापत्यविसंज्ञया । सवस्त्रास्सफलास्तत्र दक्षिणासहिताः शुभाः

在那里,应安置吉祥的水罐(kumbha),名为“普罗阇钵底耶(Prājāpatya)”。并应连同衣布与果品,以及相称的供养金(dakṣiṇā)一并奉献,作为清净有功德的圣施。

Verse 8

मण्डलस्य च पार्श्वे वै स्थापनीयाः प्रयत्नतः । मध्ये चैकश्च संस्थाप्यः सौवर्णो वापरो घटः

于仪式曼荼罗(maṇḍala)之两侧,应当用心谨慎安置诸器皿。并在正中央再安置一只水罐(ghaṭa)——或为金制,或为其他适宜的金属器。

Verse 9

तत्रोमासहितां शंभुमूर्तिन्निर्माय हाटकीम् । पलेन वा तदर्द्धेन यथाशक्त्याथवा व्रती

于彼处,持戒行愿者当依己力,以一帕拉之金或其半,铸造金质圣像:主商婆(Śambhu,湿婆)与优摩同在。

Verse 10

निधाय वामभागे तु शिवामूर्त्तिमतन्द्रितः । मदीयां दक्षिणे भागे कृत्वा रात्रौ प्रपूजयेत्

当不懈怠,将湿婆妃(帕尔瓦蒂)圣像安置左侧,又将我(湿婆)之圣像置于右侧,夜间当以虔敬通宵礼拜。

Verse 11

आचार्यं वरयेत्तत्र चर्त्विग्भिस्सहितं शुचिम् । अनुज्ञातश्च तैर्भक्त्या शिवपूजां समाचरेत्

于彼处,当择一位清净的阿阇梨(ācārya)并与诸祭师(ṛtvik)同在;得其以虔诚所赐许可后,方应以信爱奉行湿婆礼拜。

Verse 12

रात्रौ जागरणं कुर्यात्पूजां यामोद्भवां चरन् । रात्रिमाक्रमयेत्सर्वां गीतनृत्यादिना व्रती

夜间,持戒行愿者当行守夜,于每一更分中修起礼拜;并以圣歌赞颂与供奉之舞等诸般信行,使整夜安然度过。

Verse 13

एवं सम्पूज्य विधिवत्संतोष्य प्रातरेव च । पुनः पूजां ततः कृत्वा होमं कुर्याद्यथाविधि

如此,依仪轨如法完成礼拜而心怀满足,于清晨黎明之时,应再行一次普阇(pūjā);其后依规矩举行护摩(homa,火供)。

Verse 14

यथाशक्ति विधानं च प्राजापत्यं समाचरेत् । ब्राह्मणान्भोजयेत्प्रीत्या दद्याद्दानानि भक्तितः

应随自身能力,如法修持名为“般若阇钵底耶”(Prājāpatya)的戒行。以欢喜恭敬之心供养婆罗门,并以虔信布施诸供品。

Verse 15

ऋत्विजश्च सपत्नीकान्वस्त्रालङ्कारभूषणैः । अलङ्कृत्य विधानेन दद्याद्दानं पृथक्पृथक्

应依仪轨,礼敬诸司祭(ṛtvij)及其妻室,以衣服、饰物与珠宝为其庄严;随后应分别如法赐予各自应得之供施。

Verse 16

गां सवत्सां विधानेन यथोपस्करसंयुताम् । उक्त्वाचार्याय वै दद्याच्छिवो मे प्रीयतामिति

应依仪轨,将一头母牛连同牛犊,并配备所需诸物,如法奉献给阿阇梨(ācārya),并说道:“愿主湿婆悦纳于我。”

Verse 17

तत्तस्सकुम्भां तन्मूर्तिं सवस्त्रां वृषभे स्थिताम् । सर्वालंकारसहितामाचार्याय निवेदयेत्

其后,应将那尊圣像连同仪式宝瓶(kumbha)一并奉献给阿阇梨:为其披衣,使其安置于公牛之上,并以一切饰物庄严具足。

Verse 18

ततः संप्रार्थयेद्देवं महेशानं महाप्रभुम् । कृतांजलिर्नतस्कन्धस्सुप्रीत्या गद्गदाक्षरः

随后,当合掌俯肩、以谦恭之姿,应至诚祈祷大自在天摩诃伊舍那——那伟大而光辉的主宰;以深切的奉爱发声,言辞哽咽,声音因敬慕而颤动。

Verse 19

देवदेव महादेव शरणागतवत्सल । व्रतेनानेन देवेश कृपां कुरु ममोपरि

噢诸神之神,噢摩诃提婆,慈爱护念归依者;噢天众之主,愿我以此誓戒(vrata)蒙你垂赐恩典于我。

Verse 20

मया भक्त्यनुसारेण व्रतमेतत्कृतं शिवा । न्यूनं सम्पूर्णतां यातु प्रसादात्तव शङ्कर

噢吉祥的湿婆,我已依自己虔敬之力受持此誓。噢商羯罗,愿凭你的恩赐,使其中一切不足皆得圆满。

Verse 21

अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया । कृतं तदस्तु कृपया सफलं तव शङ्कर

噢商羯罗,无论我因无明或以正知而行持诵念(japa)、供奉(pūjā)等诸般礼敬,愿你以慈悲令这一切皆得成果圆成。

Verse 22

एवं पुष्पांजलिं दत्त्वा शिवाय परमात्मने । नमस्कारं ततः कुर्यात्प्रार्थनां पुनरेव च

如是,将一把花供奉于湿婆——至上之我——之后,应当恭敬顶礼,并再次献上祈祷。

Verse 23

एवं व्रतं कृतं येन न्यूनं तस्य न विद्यते । मनोभीष्टां ततः सिद्धिं लभते नात्र संशयः

凡如是修持此誓戒(vrata)者,于其中无有缺失;其后必得心所愿之成就(悉地),对此毫无疑虑。

Verse 39

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटित्त्वसंहितायां शिवरात्रिव्रतोद्यापनं नामैकोनचत्वारिंशोऽध्यायः

至此,《圣湿婆大往世书》第四部《俱胝鲁陀罗集》(Koṭirudra Saṃhitā)中题为“湿婆夜誓愿之圆满仪式(Udyāpana)”的第三十九章宣告结束。

Frequently Asked Questions

It teaches the udyāpana-vidhi (completion rite) for the Śivarātri-vrata: a fourteen-year observance framework, the trayodaśī/caturdaśī food-fast rules, temple worship on Śivarātri, maṇḍala preparation (Gaurī-tilaka), installation of kuṃbhas with dakṣiṇā, and nocturnal worship of Umā-sahita Śambhu.

The rite encodes completeness through ordered space: the maṇḍala’s auspicious geometry (bhadra/sarvatobhadra) sacralizes the field, side-placed kuṃbhas stabilize the periphery (supporting powers/guardianship logic), and the central ghaṭa marks the axis of presence. Together they ritualize ‘pūrṇatā’—the vow becomes complete when the cosmos is symbolically re-centered on Śiva-Śakti.

The chapter highlights Umā-sahita Śambhu—Śiva installed and worshipped together with Umā/Śivā (placed on the left). This paired iconography emphasizes Śiva-Śakti inseparability as the proper theological form for concluding (udyāpana) a major vrata.