Adhyaya 32
Kotirudra SamhitaAdhyaya 3251 Verses

Ghuśmeśa-jyotirliṅga-māhātmya (The Greatness of the Ghuśmeśa Jyotirlinga)

本章开篇,苏多(Sūta)转入下一处光明灵伽(jyotirliṅga)的叙述,明确称古施梅沙(Ghuśmeśa)为一座光明灵伽,并请诸仙圣聆听其功德伟力(māhātmya)。故事地点在南方,一座辉煌的神山名为吉里尔·提婆(Girir-deva)。圣境附近住着婆罗门苏达尔玛(Sudharmā),出自婆罗多婆阇(Bhāradvāja)族系,被描绘为严守正法的居士典范:敬奉天神与宾客,遵循吠陀之道(veda-mārga),事火供养(agni-sevā),三时行沙昙耶(sandhyā),并具讲授圣典(śāstra)之权威。虽积德而富足,夫妻却久无子嗣。苏达尔玛以对我灵(ātman)的自知而安定,不陷忧悲;其妻苏德黑(Sudehā)则因求子而哀伤。由此铺陈出典型的光明灵伽叙事:以世间缺憾与灵性安忍的张力为门径,引向湿婆(Śiva)借圣地与灵伽临在而赐下的恩典。

Shlokas

Verse 1

सूत उवाच । अतः परं च घुश्मेशं ज्योतिर्लिंगमुदाहृतम् । तस्यैव च सुमाहात्म्यं श्रूयतामृषिसत्तमः

苏多说道:“接下来将宣说名为瞿湿梅沙(Ghuśmeśa)的光明灵标(Jyotirliṅga)。噢,诸仙之最胜者,请聆听那位主宰本身广大而吉祥的荣耀。”

Verse 2

दक्षिणस्यां दिशि श्रेष्ठो गिरिर्देवेति संज्ञकः । महाशोभान्वितो नित्यं राजतेऽद्भुत दर्शनः

在南方有一座殊胜之山,名为“天神山”(Deva)。它恒常庄严于大光辉之中,长久照耀,观之令人惊叹。

Verse 3

तस्यैव निकटे कश्चिद्भारद्वाजकुलोद्भवः । सुधर्मा नाम विप्रश्च न्यवसद्ब्रह्मवित्तमः

就在那地方附近,住着一位出自婆罗多婆阇族系的婆罗门,名为苏达尔摩(Sudharmā),乃是通达梵(Brahman)的上乘智者,安住于神圣智慧之中。

Verse 4

तस्य प्रिया सुदेहा च शिवधर्मपरायणः । पतिसेवापरा नित्यं गृहकर्मविचक्षणा

他挚爱的妻子苏德诃(Sudekhā)全心归依湿婆之法(Śiva-dharma)。她恒常以侍奉夫君为志,善于持家,明辨家务之责。

Verse 5

सुधर्मा च द्विजश्रेष्ठो देवतातिथिपूजकः । वेदमार्गपरो नित्यमग्नि सेवापरायणः

而苏达摩(Sudharmā)为二次生者中之最胜,礼敬诸天并恭敬宾客。他恒常依止吠陀之道,持续奉事圣火阿耆尼(Agni)。

Verse 6

त्रिकालसंध्यया युक्तस्सूर्य्यरूपसमद्युतिः । शिष्याणां पाठकश्चैव वेदशास्त्रविचक्षणः

他坚守每日三时的三昧耶(Sandhyā)礼敬;形相与光辉皆如日轮般灿然。又教导弟子,于吠陀与诸圣论(śāstra)明察通达。

Verse 7

धनवांश्च परो दाता सौजन्यगुणभाजनः । शिवकर्मरतो नित्यं शैवश्शैवजनप्रियः

他富足而为上首施主,具足高雅德行之器。恒常从事湿婆之业,确为真Śaiva,深受湿婆信众所爱敬。

Verse 8

आयुर्बहु व्यतीयाय तस्य धर्मं प्रकुर्वतः । पुत्रश्च नाभवत्तस्य ऋतुः स्यादफलः स्त्रियाः

尽管他勤恳奉行自身所当行的法(dharma),岁月却已流逝良多;然而他仍未得一子,妻子的受孕时节也屡屡落空,无有结果。

Verse 9

तेन दुःखं कृतं नैव वस्तुज्ञानपरेण हि । आत्मनस्तारकश्चात्मा ह्यात्मनः पावनश्च सः

对于专注于实相之智者,真正的忧苦并不生起;因为自我(真我,Ātman)本身即成为自身的解脱者,而同一真我亦是净化自我的清净者。

Verse 10

इत्येवं मानसं धृत्वा दुःखं न कृतवान्स्तदा । सुदेहा च तदा दुःखं चकार पुत्रसम्भवम्

他如此安住其心,当时并未沉溺于忧伤;然而苏德诃那时却因求得一子之事而悲恸忧愁。

Verse 11

नित्यं च स्वामिनं सा वै प्रार्थयद्यत्नसाधने । पुत्रोत्पादनहेतोश्च सर्वविद्याविशारदम्

她又不断恳求自己的夫君——通达诸学之人——务必精勤用功、竭诚努力,只为得以诞生一位儿子。

Verse 12

सोऽपि स्त्रियं तदा भर्त्स्य किं पुत्रश्च करिष्यति । का माता कः पिता पुत्रः को बंधुश्च प्रियश्च कः

他那时也会责骂那女子;而儿子又能做什么呢?谁才真正是“母亲”,谁是“父亲”,谁是“儿子”?谁确是“亲族”,谁又是“至爱”呢?

Verse 13

सर्वं स्वार्थपरं देवि त्रिलोक्यां नात्र संशयः । जानीहि त्वं विशेषेण बुद्ध्या शोकं न वै कुरु

噢女神,在三界之中,众生皆以自身利益为先;对此无有疑惑。你当以明辨之智了然知之,莫令忧伤生起。

Verse 14

तस्माद्देवि त्वया दुःखं त्यजनीयं सुनिश्चितम् । नित्यं मह्यं त्वया नैव कथनीयं शुभव्रते

因此,噢女神,你务必舍弃忧苦。又,噢持吉祥誓愿者,你永远不要再向我提起此事。

Verse 15

एवं तां सन्निवार्य्यैव भगवद्धर्मतत्परः । आसीत्परमसंतुष्टो द्वन्द्वदुःखं समत्यजत्

如是,他坚定地制止了她;那位专注于主之法(Bhagavad-dharma)者,遂得至极满足,并舍离由对待二相所生的忧苦。

Verse 16

कदाचिच्च सुदेहा वै गेहे च सहवासिनः । जगाम प्रियगोष्ठ्यर्थं विवादस्तत्र संगतः

有一次,苏德诃与同住一宅之人一同前往欢悦的聚会;然而在彼处,争执忽然生起。

Verse 17

तत्पत्नी स्त्रीस्वभावाच्च भर्त्सिता सा तया तदा । उक्ता चेति दुरुक्त्या वै सुदेहा विप्रकामिनी

随后,那人的妻子出于女子之性(嫉妒),当时严厉斥责她;以尖刻之语,责向迷恋婆罗门的苏德诃。

Verse 18

द्विजपत्न्युवाच अपुत्रिणि कथं गर्वं कुरुषे पुत्रिणी ह्यहम् । मद्धनं भोक्ष्यते पुत्रो धनं ते कश्च भोक्ष्यते

婆罗门之妻说道:“无子之女,你怎能自矜?我有儿子为福。我的儿子将继承并享用我的财物;而你的财物,究竟谁来享用?”

Verse 19

नूनं हरिष्यते राजा त्वद्धनं नात्र संशयः । धिग्धिक्त्वां ते धनं धिक्च धिक्ते मानं हि वन्ध्यके

“国王必定会夺取你的财物——毫无疑问。可耻啊你!可耻你的财富,也可耻你那傲慢之心,无子之妇!”

Verse 20

सूत उवाच । भर्त्सिता ताभिरिति सा गृहमागत्य दुःखिता । स्वामिने कथयामास तदुक्तं सर्वमादरात्

苏多说道:她被那些妇人如此斥责后,忧伤地回到家中,并恭敬地向丈夫详述了所听到的一切言语。

Verse 21

ब्राह्मणोऽपि तदा दुःखं न चकार सुबुद्धिमान् । कथितं कथ्यतामेव यद्भावि तद्भवेत्प्रिये

当时那位明智的婆罗门并未沉溺于忧苦。他说:“爱妻啊,你要说的就坦然说出,不必迟疑;凡命定之事,终将如实发生。”

Verse 22

इत्येवं च तदा तेन ह्याश्वस्तापि पुनः पुनः । न तदा सात्यजद्दुःखं ह्याग्रहं कृतवत्यसौ

因此,尽管他一再安慰她,她当时仍未舍弃忧苦;确然,她依旧执意不移,坚守自己的坚持。

Verse 23

सुदेहोवाच । यथा तथा त्वया पुत्रस्समुत्पाद्यः प्रियोऽसि मे । त्यक्षामि ह्यन्यथाहं च देहं देहभृतां वर

苏德诃说道:“无论用何种方式,你都必须使我得一子;你是我所钟爱之人。否则,噢诸有身者中最胜者,我必定舍弃此身。”

Verse 24

सूत उवाच । एवमुक्तं तया श्रुत्वा सुधर्मा ब्राह्मणोत्तमः । शिवं सस्मार मनसा तदाग्रहनिपीडितः

苏多说道:听到她所说的话,苏达摩——婆罗门中最殊胜者——被那执求所逼迫,便在心中忆念主宰湿婆。

Verse 25

अग्नेरग्रेऽक्षिपत्पुष्पद्वयं विप्रो ह्यतंद्रितः । मनसा दक्षिणं पुष्पं तन्मेने पुत्रकामदम्

在圣火之前,那警醒的婆罗门迅速掷下两朵花;他心中认定右边那朵为赐予得子之愿的恩花。

Verse 26

एवं कृत्वा पणं पत्नीमुवाच ब्राह्मणस्स च । अनयोर्ग्राह्यमेकं ते पुष्पं पुत्र फलाप्तये

如此立下约定后,那婆罗门对妻子说道:“在这两朵花中,你随意取其一朵,以成就得子之果。”

Verse 27

तया च मनसा धृत्वा पुत्रश्चैव भवेन्मम । तदा च स्वामिना यच्च धृतं पुष्पं समेतु माम्

愿她以心念持我,使我确实成为她的儿子;并愿那时主尊(她的夫君)手中所持之花,归于我。

Verse 28

इत्युक्त्वा च तया तत्र नमस्कृत्य शिवं तदा । नत्वा चाग्निं पुनः प्रार्थ्य गृहीतं पुष्पमेककम्

她如此说罢,便在彼处恭敬顶礼湿婆。继而又礼敬圣火,再次祈祷,然后取起一朵花。

Verse 29

स्वामिना चिंतितं यच्च तद्गृहीतं तया न हि । सुदेहया विमोहेन शिवेच्छासंभवेन वै

凡其夫所意欲者,她皆未受纳;因为在苏德诃心中生起迷惑,而此迷惑实由湿婆自身的意志所致。

Verse 30

तद्दृष्ट्वा पुरुषश्चैव निश्वासं पर्यमोचयत् । स्मृत्वा शिवपदांभोजमुवाच निजकामिनीम्

见此情形,那男子立刻长叹一声;继而忆念主湿婆的莲华圣足,便对自己心爱的妻子开口说道。

Verse 31

सुधर्मोवाच । निर्मितं चेश्वरेणैव कथं चैवान्यथा भवेत् । आशां त्यज प्रिये त्वं च परिचर्य्यां कुरु प्रभोः

苏达摩说道:“既为主宰亲自所造,岂能另有他样?爱妻啊,当舍诸般期待,勤修对主的虔诚侍奉。”

Verse 32

इत्युक्त्वा तु स्वयं विप्र आशां परिविहाय च । धर्मकार्यरतस्सोऽभूच्छंकरध्यानतत्परः

说罢,那位婆罗门舍弃一切世间希求,勤行正法之业,心神专一,恒住于对商羯罗(主湿婆)的禅观之中。

Verse 33

सा सुदेहाग्रहं नैव मुमोचात्मजकाम्यया । प्रत्युवाच पतिं प्रेम्णा सांजलिर्नतमस्तका

因渴望得一子,她丝毫未舍对自己美好身躯的执著。随后,她以慈爱之虔敬,合掌致敬,俯首低眉,答复其夫。

Verse 34

सुदेहोवाच । मयि पुत्रो न चास्त्वन्या पत्नीं कुरु मदाज्ञया । तस्यां नूनं सुतश्चैव भविष्यति न संशयः

苏德诃说道:“既然我未能为你诞下儿子,就依我之命再娶一位妻子。从她那里,必定会有儿子出生——毫无疑虑。”

Verse 35

सूत उवाच । तदैव प्रथितो वै स ब्रह्मणश्शैवसत्तमः । उवाच स्वप्रियां तां च सुदेहां धर्म तत्परः

苏多说道:就在那时,那位声名显赫、最为殊胜的湿婆奉者——梵天,恒常专注于法(dharma),对其爱妻苏德诃开口说道。

Verse 36

सुधर्मोवाच । त्वदीयं च मदीयं च सर्वं दुःखं गतं ध्रुवम् । तस्मात्त्वं धर्मविघ्नं च प्रियो मा कुरु सांप्रतम्

苏达摩说道:“确然,一切忧苦——你的也好,我的也好——如今都已消散。因此,亲爱的,此刻切莫成为法(dharma)的障碍。”

Verse 37

सूत उवाच । इत्येवं वारिता सा च स्वामातुः पुत्रिकां तदा । गृहमानीय भर्तारं वृणु त्वेनामिदं जगौ

苏多说道:她既被如此劝止,便在那时把那位少女——她自己母亲的女儿——带回家中,对她说:“你当择取夫君。”

Verse 38

सुधर्मोवाच । इदानीं वदसि त्वं च मत्प्रियेयं ततः पुनः । पुत्रसूश्च यदा स्याद्वै तदा स्पर्द्धां करिष्यसि

苏达摩说道:“即便如今你还称她为‘我的爱人’;但将来一旦生下儿子,你必定会陷入争竞与纷争。”

Verse 39

नाहं स्पर्द्धां भगिन्या वै करिष्ये द्विजसत्तम । उपयच्छस्व पुत्रार्थमिमामाज्ञापयामि च

噢,最上之婆罗门啊,我决不与姊妹相争。请为求得儿子而纳受她——此亦是我的命令。

Verse 40

इत्येवं प्रार्थितस्सोऽपि सुधर्मा प्रियया तया । घुश्मां तां समुपायंस्त विवाहविधिना द्विजः

就这样,在爱妻如此恳求之下,苏达摩亦以“二次生者”(dvija)之身,纳受瞿什摩,并依照所规定的婚礼仪轨与她成婚。

Verse 41

ततस्तां परिणीयाथ प्रार्थयामास तां द्विजः । त्वदीयेयं कनिष्ठा हि सदा पोष्यानघे प्रिये

随后,他依礼迎娶了她,那位婆罗门恭敬说道:“爱妻,清净无垢者——你这位幼妹归你照拂;当恒常护养、供给她所需。”

Verse 42

उक्तैव स च धर्मात्मा सुधर्मा शैवसत्तमः । यथायोग्यं चकाराशु धर्मसंग्रहमात्मनः

如是受教后,具正法之心的苏达摩——诸湿婆奉者中最殊胜者——即刻依其能力与身分,亲自编整一部相称的法义纲要。

Verse 43

सा चापि मातृपुत्रीं तां दासीवत्पर्यवर्त्तत । परित्यज्य विरोधं हि पुपोषाहर्निशं प्रिया

她亦如婢女般侍奉那对母女;舍弃一切对立与争执,这位可爱之人昼夜不息地抚养照护她们。

Verse 44

कनिष्ठा चैव या पत्नी स्वस्रनुज्ञामवाप्य च । पार्थिवान्सा चकाराशु श्रियमेकोत्तरं शतम्

随后,年少的妻子得了姐姐的允诺,便迅速令人塑造一百零一个泥土林伽,以求吉祥福盛。

Verse 45

विधानपूर्वकं घुष्मा सोपचारसमन्वितम् । कृत्वा तान्प्राक्षिपत्तत्र तडागे निकटस्थिते

古什玛依仪轨如法而行,具足供品与侍奉之礼,随后将那些物件投于近旁的池塘之中。

Verse 46

एवं नित्यं सा चकार शिवपूजां स्वकामदाम् । विसृज्य पुनरावाह्य तत्सपर्य्याविधानतः

于是她日日奉行对湿婆的礼拜;主湿婆成就她正当的愿求。她恭敬地结坛毕仪后,又再启请圣尊降临,并依照所规定的仪轨如法续行供奉。

Verse 47

कुर्वन्त्या नित्यमेवं हि तस्याश्शंकरपूजनम् । लक्षसंख्याभवत्पूर्णा सर्वकामफलप्रदा

确实,她日日如是礼拜商羯罗,其次数圆满至一“洛叉”(十万);而此礼拜遂成赐与一切所愿之果报者。

Verse 48

कृपया शंकरस्यैव तस्याः पुत्रो व्यजायत । सुन्दरस्सुभगश्चैव कल्याणगुणभाजम्

唯由商羯罗的慈恩,她得生一子——容貌俊美,吉祥瑞相,且具诸善德福慧之所依。

Verse 49

तं दृष्ट्वा परमप्रीतः स विप्रो धर्मवित्तमः । अनासक्तस्सुखं भेजे ज्ञानधर्मपरायणः

见到此子,那位婆罗门——最通达法义者——欢喜无量。离于执著,他安然享受真实安乐,坚定依止灵性之智与正法之行。

Verse 50

सुदेहा तावदस्यास्तु स्पर्द्धामुग्रां चकार सा । प्रथमं शीतलं तस्या हृदयं ह्यसिवत्पुनः

于是,苏德诃被凶猛的争胜之心充满,便照此行事。起初她的心尚且清凉安定;然而转瞬又变得坚硬而锋利,宛如利剑。

Verse 51

ततः परं च यज्जातं कुत्सितं कर्म दुःखदम् । सावधानेन मनसा श्रूयतां तन्मुनीश्वरा

其后,凡所生起之可责之业、能招致苦恼者——噢,诸牟尼中之尊者——请以警觉专注之心,今当谛听。

Frequently Asked Questions

The chapter initiates the Ghuśmeśa jyotirliṅga māhātmya by establishing the kṣetra (Girir-deva in the southern direction) and introducing an exemplary Vedic-orthodox, Śiva-aligned householder (Sudharmā) whose childlessness becomes the narrative problem that the jyotirliṅga’s grace will address.

The jyotirliṅga functions as the ‘locus of accessibility’ for transcendent Śiva: sacred geography (diśā + giri + kṣetra) encodes a theology where place, discipline (sandhyā/agni), and moral steadiness become conduits for anugraha. Sudharmā’s non-grief grounded in ātma-jñāna models inner purification, while the unresolved desire for progeny marks the boundary where ritual-site grace complements philosophical composure.

Śiva is highlighted specifically as Ghuśmeśa in the form of a jyotirliṅga (jyotirliṅgam udāhṛtam). No distinct named manifestation of Gaurī appears in the sampled opening verses; the feminine presence is represented narratively through Sudehā’s domestic and emotional role rather than a theophanic form.