Sukta 8.18
पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् । उप द्वयुं चाद्वयुं च वसवः ॥
पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्य॑म् । उप॑ द्व॒युं चाद्व॑युं च वसवः ॥
pā́katrā́ sthana devā hṛtsú jānītha mártyam | úpa dvayúṃ cā́dvayúṃ ca vasavaḥ ||
诸神啊,愿汝等临在于幽隐之处;于心中汝等洞见凡人。婆苏诸神啊,请近临那怀二心者与那不二心者。
पा॒क॒ऽत्रा । स्थ॒न॒ । दे॒वाः॒ । हृ॒त्ऽसु । जा॒नी॒थ॒ । मर्त्य॑म् । उप॑ । द्व॒युम् । च॒ । अद्व॑युम् । च॒ । व॒स॒वः॒ ॥पाकत्रा । स्थन । देवाः । हृत्सु । जानीथ । मर्त्यम् । उप । द्वयुम् । च । अद्वयुम् । च । वसवः ॥pāka-trā | sthana | devāḥ | hṛt-su | jānītha | martyam | upa | dvayum | ca | advayum | ca | vasavaḥ